________________
सिद्धान्तकौमुद्याम् शब्दं करोति शाब्दिकः। दार्दुरिकः ॥ पक्षिमत्स्यमृगान्हन्ति ।।४॥३५॥ स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणम् । मत्स्यपर्यायेषु मीनस्यैव । पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुलिकः । मार्गिकः । हारिणिकः । सारङ्गिकः ॥ परिपन्थं च तिष्ठति ।४।४३६ ॥ अस्माद्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक् स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । परिपन्थं हन्ति पारिपन्थिकः ॥ माथोत्तरपदपदव्यनुपदं धावति ।४।४।३७ ॥ दण्डाकारो माथः पन्थाः दण्डमाथः । दण्डमाथं धावति दाण्डमाथिकः । पादविकः । आनुपदिकः ॥ आक्रन्दाहश्च ।४।४।३८ ॥ अस्माट्ठञ् स्याच्चाट्ठक् धावतीत्यर्थे आक्रन्दं दुःखिनां रोदनस्थानं धावति आक्रन्दिकः ॥ पदोत्तरपदं गृह्णाति ।४।४।३९ ॥ पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः ॥ प्रतिकण्ठार्थललामं च ।४।४।४०॥ एभ्यो गृह्णात्यर्थे ठक् स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः । लालामिकः ॥ धर्म चरति ।४।४।४१ ॥ धार्मिकः ॥ अधर्माच्चेति वक्तव्यम् * ॥ आधर्मिकः ॥ प्रतिपथमेति ठञ्च ।४।४। ४२॥ प्रतिपथमेति प्रातिपथिकः ॥ समंवायान्समवैति ।४।४।४३ ॥ सामवायिकः । सामूहिकः ॥ परिषदो ण्यः।४।४४४॥ परिषदं समवैति पारिषद्यः ॥ सेनाया वा ।४४।४५ ॥ ण्यः स्यात्पक्षे ठक् । सैन्याः । सैनिकाः ॥ संज्ञायां ललाटकुक्कुट्यौ पश्यति ।४।४।४६॥ ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटीशब्देन तत्पातार्हः खल्पदेशो लक्ष्यते ॥ कौकुटिको भिक्षुः ॥ तस्य धर्म्यम् ।४।४।४७॥ आपणस्य धर्म्यमापणिकम् ॥ अण् महिष्यादिभ्यः ।४।४।४८ ॥ महिप्या धर्म्य माहिषम् । याजमानम् ॥ ऋतोऽञ् ।४।४४९ ॥ यातुर्धर्म्य यात्रम् ॥ नराच्चेति वक्तव्यम् * ॥ नरस्य धा नारी ॥ विशसितुरिड्लोपश्चाञ्च वक्तव्यः * ॥ विशसितुर्धय॑ वैशस्त्रम् ॥ विभाजयितुर्णिलोपश्चाञ्च वाच्यः * ॥ विभाजयितुधर्म्य वैभाजित्रम् ॥ अवक्रयः।४।४।५०॥ षष्ठ्यन्ताट्टक् स्यादवक्रयेऽर्थे । आपणस्यावक्रय आपणिकः । राजग्राह्यं द्रव्यमवक्रयः ॥ तदस्य पण्यम् ॥४॥४॥५१॥ अपूपाः पण्यमस्य आपूपिकः ॥ लवणाट्ठञ् ॥४॥४॥ ५२॥ लावणिकः ॥ किसँरादिभ्यः ष्ठन् ।४।४।५३ ॥ किसरं पण्यमस्य किसरिकः । षित्वान्ङीष् । किसरिकी । किसर, उशीर, नलद इत्यादि । किसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ॥ शलालुनोऽन्यतरस्याम् ।४।४।५४ ॥ ष्ठन्स्यात् पक्षे ठक् । शलालुकः । शलालुकी। शालालुकः । शालालुकी। शलालुः सुगन्धिद्रव्यविशेषः ॥ शिल्पम् ।४।४।५५ ॥ मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥ मडकझझरादणन्यतरस्याम् ।४।
१ बहुवचनार्थनिर्देशोयं तदाह सामूहिक इति ॥ २ महिषी, प्रजापति, प्रजावती, प्रलेपिका, विलेपिका, अनुलेपिका, पुरोहित, मणिपाली, अनुचारक, होतृ, यजमान । इति महिष्यादिः॥ ३ किसर (किनर), नरद, नलद, स्थागल, तगर, गुग्गुल, उशीर, हरिद्रा, हरिनु, पर्णी । इति किसरादिः॥ .