________________
तद्धितेषु ठगधिकारः ।
१३३ विक्रयान् ।४।४।१३ ॥ वस्नेन मूल्येन जीवति वस्तिकः । क्रयविक्रयग्रहणं संघातविगृहीतार्थम् । क्रयविक्रयिकः । ऋयिकः । विक्रयिकः ॥ आयुधाच्छ च ।४।४।१४ ॥ चाहन् । आयुधेन जीवति आयुधीयः । आयुधिकः ॥ हरत्युत्सङ्गादिभ्यः ।४।४। १५॥ उत्सङ्गेन हरत्यौत्सङ्गिकः ॥ भस्त्रांदिभ्यः ष्ठन् ।४।४।१६ ॥ भस्त्रया हरति भस्त्रिकः । पित्त्वान्ङीष् । भस्त्रिकी ॥ विभाषा विवधात् ।४।४।१७॥ विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । एकदेशविकृतस्यानन्यत्वाद्वीवधादपि छन् । वीवधिकः । विवधिकी । विवधवीवधशब्दौ उभयतोबद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ॥ अण् कुटिलिकायाः।४।४।१८ ॥ कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कारश्च ॥ निवृत्तेऽक्षगुंतादिभ्यः।४।४।१९ ॥ अक्षय॒तेन निवृत्तमाक्षचूतिकं वैरम् ॥ क्त्रेमग्नित्यम् ।४।४।२०॥ त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्निवृत्तेऽर्थे मप्स्यान्नित्यम् । कृत्या निवृत्तं कृत्रिमम् । पक्रिमम् ॥ भावप्रत्ययान्तादिमप् वक्तव्यः * ॥ पाकेन निर्वृत्तं पाकिमम् । त्यागिमम् ॥ अपमित्ययाचिताभ्यां ककनी ।४।४।२१ ॥ अपमित्येति ल्यबन्तम् । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निवृत्तं याचितकम् ॥ संसृष्टे ।४।४।२२ ॥ दना संसृष्टं दाधिकम् ॥ चूर्णादिनिः ।४।४।२३ ॥ चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः ॥ लवणाल्लुक ।४।४। २४ ॥ लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् ॥ मुद्गादण् ।४।४।२५॥ मौद्ग ओदनः ॥ व्यञ्जनैरुपसिक्त ।४।४।२६॥ ठक् । दध्ना उपसिक्तं दाधिकम् ॥ ओजःमहोम्भसा वर्तते ।४।४।२७ ॥ ओजसा वर्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः ॥ तत्प्रत्यनुपूर्वमीपलोमकूलम् ।४।४।२८ ॥ द्वितीयान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक् स्यात् । क्रियाविशेषणत्वाद्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । आनुलोमिकः । प्रातिकूलिकः । आनुकूलिकः ॥ परिमुखं च ।४।४।२९ ॥ परिमुखं वर्तते पारिमुखिकः । चात्पारिपाश्चिकः ॥ प्रयच्छति गर्यम् ।४।४।३० ॥ द्विगुणार्थं द्विगुणं तत्प्रयच्छति द्वैगुणिकः । त्रैगुणिकः । वृद्धवृधुषिभावो वक्तव्यः * ॥ वाधुषिकः ॥ कुसीददशैकादशात् ष्ठन्ष्टचौ ।४।४।३१॥ गार्थाभ्यामाभ्यामेतौ स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदं तत्प्रयच्छति कुसीदिकः । कुसीदिकी । एकादशार्थत्वादेकादश ते च ते वस्तुतो दश चेति विग्रहेऽकारः समासान्त इहैव सूत्रे निपात्यते । दशैकादशिकः । दशैकादशिकी । दशैकादशान्प्रयच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः ॥ उञ्छति ।४।४।३२ ॥ बदराण्युञ्छति बादरिकः ॥ रक्षति ।४।४।३३ ॥ समाजं रक्षति सामाजिकः ॥ शब्ददुर्दरं करोति ।४।४।३४ ॥
१ उत्सङ्ग, उडुप, उत्पट, उत्पूत, उत्पन्न, पिटक, पिटाक । इत्युत्सङ्गादिः ॥ २ भत्रा, भरट, भरण, शीर्षभार, शीर्षेभार, अंसभार, अंसेभार । इति भत्रादिः॥ ३ अवधूत, जानुप्रहृत, जङ्घामहत, जवानहत, पादखेदन, कण्टकमर्दन, गतानुगत, गतागत, यातोपयात, अनुगत । इत्यक्षद्यूतादिः ॥
HTHHHHHHHLE