________________
१३२
सिद्धान्तकौमुद्याम् तक्याः फलानि हरीतक्यः ॥ कंसीयपरशव्ययोर्यत्रो लुक् च ।४३।१६८॥ कंसीयपरशव्यशब्दाभ्यां यजञौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम्, तस्य विकारः कांस्यम् । परशवे हितं परशव्यम् , तस्य विकारः पारशवः ॥
॥ इति प्राग्दीव्यतीयाः समाप्ताः॥ प्राग्वहतेष्ठक् ।४।४१ ॥ तद्वहतीत्यतः प्राक् ठगधिक्रियते ॥ तदाहेति माशब्दादिभ्य उपसंख्यानम् * ॥ मा शब्दः कारि इति य आह स माशब्दिकः ॥ खांगतादीनां च ३७ ॥ ऐच् न स्यात् । खागतमित्याह खागतिकः । खाध्वरिकः । खङ्गस्यापत्यं खाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः ॥ व्यवहारेण चरति व्यावहारिकः । खपतौ साधु खापतेयम् ॥ आहौ प्रभूतादिभ्यः * ॥ प्रभूतमाह प्राभूतिकः ॥ पार्याप्तिकः ॥ पृच्छतौ (नातादिभ्यः * ॥ सुनातं पृच्छति सौनातिकः । सौखशायनिकः । अनुशतिकादिः ॥ गच्छतौ परदारादिभ्यः * ॥ पारदारिकः । गौरुतल्पिकः ॥ तेन दीव्यति खनति जयति जितम् ।४।४।२ ॥ अक्षदीव्यति आक्षिकः । अध्या खनति आधिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् ॥ संस्कृतम् ।४।४३ ॥ दध्ना संस्कृतं दाधिकम् । मारीचिकम् ॥ कुलत्थकोपधादण् ।४।४।४ ॥ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैत्तिडीकम् ॥ तरति ।४।४।५ ॥ उडुपेन तरति औडुपिकः ॥ गोपुच्छाकृञ् ॥४॥४॥६॥ गौपुच्छिकः ॥ नौयचष्ठन् ।४।४७॥ नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री ॥ चरति ।४।४८॥ तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ।। आकर्षात् ष्ठलू ।४।४।९ ॥ आकर्षो निकषोपलः । आकषादिति पाठान्तरम् । तेन चरति आकर्षिकः । षित्त्वान्ङीष् । आकर्षिकी ॥ पंपादिभ्यः ष्ठन् ।४।४।१० ॥ पर्पण चरति पर्पिकः । पर्पिकी । येन पीठेन पङ्गवश्चरन्ति स पर्पः । अश्विकः । रथिकः || श्वगणाहश्च ।४।४।११ ॥ चात् ठन् ॥ श्वादेरिजि ॥३८॥ ऐच् न । श्वभस्त्रस्यापत्यं श्वाभस्त्रिः । श्वादंष्ट्रिः । तदादिविधौ चेदमेव ज्ञापकम् ॥ इकारादाविति वाच्यम् * ॥ श्वगणेन चरति श्वागणिकः । श्वागणिकी । श्वगणिकः । श्वगणिकी ॥ पदान्तस्यान्यतरस्याम् ।७।३।९ ॥. श्वादेरङ्गस्य पदशब्दान्तस्यैज्वा । श्वापदस्येदं श्वापदम् । शौवापदम् ॥ वेतनादिभ्यो जीवति।४।४।१२ ॥ वेतनेन जीवति वैतनिकः । धानुष्कः ।। वलक्रय
१ माशब्द, नित्यशब्द, कार्यशब्द । इति माशब्दादिः॥ २ खागत, स्वध्वर, खड्ग, व्यङ्ग, व्यड, व्यवहार, खपति । इति स्वागतादिः॥ ३ प्रभूत, पर्याप्त । इति प्रभूतादिः ॥ ४ सुनात, सुखरात्रि, सुखशयन । इति सुनातादिः॥ ५ परदार, गुरुतल्प । इति परदारादिः । एते चत्वारोऽप्याकृतिगणाः ॥ ६ पर्प, अश्व, अश्वत्थ, रथ, जाल, व्याल, न्यास, पादः पञ्च । इति पर्यादिः॥ ७ वेतन, वाहान, अर्ध, वाहान, धनुष, दण्ड, चाल, वेश, उपवेश, प्रेषण, उपबस्ति, सुख, शय्या, शक्ति, उपनिषद, उपदेश, स्फिच् , पाद, उपस्य, उपस्थान, उपहस्त । इति वेतनादिः॥