________________
तद्धितेषु विकारार्थकाः।
१३१ व्रीहे पुरोडाशे ४३३१४८ ॥ मयट् स्यात् । बिल्वाधणोऽपवादः । व्रीहिमयः पुरोडाशः । त्रैहमन्यत् ॥ असंज्ञायां तिलयवाभ्याम् ।४।३।१४९ ॥ तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः ॥ तालादिभ्योऽण् ।४।३।१५२ ॥ अञ्मयटोरपवादः । तालाद्धनुषि * ॥ तालं धनुः । अन्यत्तालमयम् । ऐन्द्रायुधम् ॥ जातरूपेभ्यः परिमाणे ।४।३।१५३ ॥ अण् । बहुवचनात्पर्यायग्रहणम् । हाटकः तापनीयः सौवर्णों वा निष्कः । परिमाणे किम् । हाटकमयी यष्टिः ॥ प्राणिरजतादिभ्योऽञ्।४।३।९५४॥ शौकम् । बाकम् । राजतम् ॥ जितश्च तत्प्रत्ययात् ।४।३।१५५ ॥ जिद्यो विकारावयवप्रत्ययस्तदन्तादञ् स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधिस्थस्य दाधित्थम् । कापित्थम् । जितः किम् । बैल्वमयम् ॥ क्रीतवत्परिमाणात ।४।। १५६ ॥ प्राग्वहतेष्ठनित्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते । अणादीनामपवादः । निष्केण क्रीतं नैष्किकम् । एवं निष्कस्य विकारोऽपि नैष्किकः । शतस्य विकारः शत्यः । शतिकः ॥ उष्ट्राद्वञ् ।४।३।१५७ ॥ प्राण्यओऽपवादः । औष्ट्रकः ॥ उमोर्णयोर्वा ।४।३१५८ ॥ औमम् । औमकम् । और्णम् । और्णकम् । वुअभावे यथाक्रममणौ ॥ एण्या ढञ् ।४।३।१५९॥ ऐणेयम् । एणस्य तु ऐणम् ॥ गोपयसोर्यत् ।४।३।१६०॥ गव्यम् । पयस्यम् ॥ द्रोश्च ।४।३।१६१॥ द्रुक्षस्तस्य विकारोऽवयवो वा द्रव्यम् ॥ माने वयः।४।३।१६२ ॥ द्रोरित्येव । द्रुवयम् । यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ॥ फले लुक् ।४।३।१६३ ॥ विकारावयवप्रत्ययस्य लुक् स्यात् फले । आमलक्याः फलमामलकम् ॥ प्लक्षादिभ्योऽण् ।४।३। १६४ ॥ विधानसामर्थ्यान्न लुक् । प्लाक्षम् ॥ न्यग्रोधस्य च केवलस्य ३५ ॥ अस्य न वृद्धिरैजागमश्च । नैयग्रोधम् ॥ जम्ब्वा वा ।४।३।१६५ ॥ जम्बूशब्दात्फलेऽण् वा स्यात् । जाम्बवम् । पक्षे ओरञ् तस्य लुक् जम्बु ॥ लुप् च ।४।३।१६६ ॥ जम्ब्वाः फलप्रत्ययस्य लुप् वा स्यात् । लुपि युक्तवत् । जम्ब्वाः फलं जम्बूः ॥ फलपाकशुपाँमुपसंख्यानम् * ॥ ब्रीहयः । मुद्गाः ॥ पुष्पमूलेषु बहुलम् * ॥ मल्लिकायाः पुष्पं मल्लिका । जात्याः पुष्पं जाती । विदार्या मूलं विदारी । बहुलग्रहणान्नेह । पाटलानि पुष्पाणि । साल्वानि मूलानि । बाहुलकात्वचिल्लुक् । अशोकम् । करवीरम् ॥ हरीतक्यादिभ्यश्च ।४।३।१६७ ॥ एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरी
WHETHER
१ तालाद्धनुषि । बार्हिण, इन्द्रालिष, इन्द्रादृश, इन्द्रायुध, चय, श्यामक, पीयूक्षा । इति तालादिः॥ १ रजत, सीस, लोह, उदुम्बर, नीप, दारु, रोहीतक, बिभीतक, पीतदारु, तीदारु, त्रिकण्टक, कण्टकारी। इति रजतादिः॥ ३ प्लक्ष, न्यग्रोध, इङ्गुदी, अश्वत्थ, शिग्रु, रुरु, कक्षतु, बृहती इति प्लक्षादिः॥ ४ फलपाकेन ये शुष्यन्ति व्रीह्यादयस्तद्वाचिनामित्यर्थः ॥ ५ हरीतकी, कोशातकी, नखरञ्जनी, शष्कण्डी, दाडी, दोडी, श्वेतपाकी, अर्जुनपाकी, द्राक्षा, काला, ध्वाला, गभीका कण्टकारिका, पिप्पली, चिच्चा, शेफालिका । इति हरीतक्यादिः॥