________________
नद्धितेषु शैषिकाः।
१२९ स्थभिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौनकिनः ॥ कठचरकाल्लक ४॥३॥ १०७॥ आभ्यां प्रोक्तप्रत्ययस्य लुक् स्यात् । कठेन प्रोक्तमधीयते कठाः। चरकाः ॥ कलापिनोऽण् ॥४॥३३१०८ ॥ कलापिना प्रोक्तमधीयते कालापाः ॥ नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानाट्टिलोपः ॥ छगलिनो ढिनुक् ।४३।१०९॥ छगलिना प्रोक्तमधीयते छागलेयिनः ॥ पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ।४।३।११० ॥ पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः ॥ कर्मन्दकृशाश्वादिनिः।४।३।१११ ॥ भिक्षुनटसूत्रयोरित्येव । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः ॥ तेनैकदिक् ।४।३।११२॥ सुदाम्ना अद्रिणा एकदिक् सौदामनी ॥ तसिश्च ।४।३।११३ ॥ खरादिपाठादव्ययत्वम् । पीलुमूलेन एकदिक् पीलुमूलतः ॥ उरसो यच।४।३।११४॥ चात्तसिः । अणोऽपवादः । उरसा एकदिक । उरस्यः । उरस्तः॥ उपज्ञाते ।४।३।११५ ॥ तेनेत्येव । पाणिनिना उपज्ञातं पाणिनीयम् ॥ कृते ग्रन्थे । ।४।३।११६ ॥ वररुचिना कृतो वाररुचो ग्रन्थः ॥ संज्ञायाम् ।४।३।११७ ॥ तेनेत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माक्षिकं मधु ॥ कुलालादिभ्यो वुञ् ।४।३।११८॥ तेन कृते संज्ञायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् ॥ क्षुद्राभ्रमरवटरपादपादञ् ।४।३।११९ ॥ तेन कृते संज्ञायाम् । क्षुद्राभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् ॥ तस्येदम् ।४।३।१२० ॥ उपगोरिदमौपगवम् ॥ वहेस्तुरणिट् च * ॥ संवोढुः खं सांवहित्रम् ।। अग्नीधः शरणे रण भं च * ॥ अग्निमिन्धे अग्नीत् तस्य स्थानमाग्नीध्रम् । तात्थ्यात्सोऽप्याग्नीध्रः ॥ समिधामाधाने घेण्यण् * ॥ सामिधेन्यो मन्त्रः । सामिधेनी ऋक् ॥ रथाद्यत् ।४।३।१२१ ॥ रथ्यं चक्रम् ॥ पत्र पूर्वादञ् ।४।३।१२२ ॥ पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ॥ पत्राध्वर्युपरिषदश्च ।४।३।१२३ ॥ अञ् ॥ पत्राद्वाह्ये * ॥ अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् । पारिषदम् ॥ हलसीराहक ।४।३।१२४ ॥ हालिकम् । सैरिकम् ॥ द्वन्द्वाद्वन्वैरमैथुनिकयोः ।४।३।१२५ ॥ काकोलूकिका । कुत्सकुशिकिका । वैरे देवासुरादिभ्यः प्रतिषेधः * ॥ दैवासुरम् ॥ गोत्रचरणादुञ् ।४।३।१२६ ॥ औपगवकम् । चरणाद्धर्माम्नाययोरिति वक्तव्यम् * ॥ काठकम् ।। सङ्घाङ्कलक्षणेष्वज्यजिजामण् ।४।३।१२७ ॥ घोषग्रहणमपि कर्तव्यम् * ॥ अञ् , बैदः, सङ्घोऽको घोषो वा । बैद, लक्षणम् । यञ्, गार्गः । गार्गम् । इञ् , दाक्षः। दाक्षम् । परंपरासंबन्धोऽङ्कः साक्षात्तु लक्षणम् ॥ शाकलाद्वा ।४।३।१२८ ॥ अण् वोक्तेऽर्थे । १ छन्दसि किम् । शौनकीया शिक्षा । अस्य वेदमात्रविषयकत्वमित्युक्तिर्धान्त्या कलापीतिसूत्रभाष्यविरोधात् ।
२ कुलाल, वरुड, चण्डाल, निषाद, कमोर, सेना, सिरिन्ध्र, देवराज, परिषद्, वधू, मधु, रुरु, रुद्र, अनडुड् , ब्रह्मन् , कुम्भकार, श्वपाक । इति कुलालादिः ॥
३ अत्र द्वन्द्वे इति पाठो लेखकप्रमादात् , मैथुनिकायामतिव्याप्तेर्भाष्ये वैरशब्दस्य दर्शनाच ॥