________________
१२८
सिद्धान्तकौमुद्याम् कादिभ्यो ज्यः।४।३।९२ ॥ शण्डिकोऽभिजनोऽस्य शाण्डिक्यः ॥ सिन्धुतक्षशि. लादिभ्योऽणौ ।४।३।९३ ॥ सिन्ध्वादिभ्योऽण् तक्षशिलादिभ्योऽञ् स्यादुक्तेऽर्थे । सैन्धवः । तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः ॥ तूदीशलातुरवर्मतीकूचवालाडक्छण्ढञ्यकः ।४।३।९४ ॥ तूदी अभिजनोऽस्य तौदेयः । शालातुरीयः । वामेतेयः। कौचवार्यः ॥ भक्तिः ।४।३।९५ ॥ सोऽस्येत्यनुवर्तते । भज्यते सेव्यते इति भक्तिः । स्रुघ्नो भक्तिरस्य सौन्नः ॥ अचित्ताददेशकालाद्वक् ।४।३।९६ ॥ अपूपा भक्तिरस्य आपूपिकः । पायसिकः । अचित्तात्किम् । देवदत्तः । अदेशात्किम् । सौनः । अकालाकिम् । प्रैष्मः ॥ महाराजाट्ठञ् ।४।३।९७ ॥ माहाराजिकः ॥ वासुदेवार्जुनाभ्यां वुन् । ४९८ ॥ वासुदेवकः । अर्जुनकः ॥ गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् ।४।। ९९ ॥ अणोपवादः । परत्वादृद्धाच्छं बाधते । ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः । नाकुलकः । बहुलग्रहणान्नेह । पाणिनो भक्तिरस्य पाणिनीयः ॥ जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने ।४।३।१०० ॥ जनपदवामिवाचिनां बहुवचने जनपदवाचिनां समानश्रुतीनां जनपदवत्सर्वं स्यात्प्रत्ययः प्रकृतिश्च । जनपदतदवध्योश्चेति प्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते । अङ्गा जनपदो भक्तिरस्याङ्गकः। अङ्गाः क्षत्रिया भक्तिरस्याङ्गकः । जनपदिनां किम् । पञ्चाला ब्राह्मणा भक्तिरस्य पाञ्चालः । जनपदेनेति किम् । पौरवो राजा भक्तिरस्य पौरवीयः ॥ तेन प्रोक्तम् ।४।३।१०१ ॥ पाणिनिना प्रोक्तं पाणिनीयम् ॥ तित्तिरिवरतन्तुखण्डिकोखाच्छण् ।४।३।१०२॥ छन्दोब्राह्मणानीति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः ॥ काश्यपकौशिकाभ्यामृषिभ्यां णिनिः।४।३।१०३॥ काश्यपेन प्रोक्तमधीयते काश्यपिनः ॥ कलापिवैशम्पायनान्तेवासिभ्यश्च ।४।३।१०४ ॥ कलाप्यन्तेवासिभ्यः, हरिद्रुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पायनान्तेवासिभ्य आलम्बिनः ॥ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु । ४।३।१०५ ॥ तृतीयान्तात्प्रोक्तार्थे णिनिः स्यात् यत्प्रोक्तं पुराणप्रोक्ताश्चेद्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन, शाट्यायनिनः । कल्पे, पिङ्गेन प्रोक्तः पैङ्गी कल्पः । पुराणेति किम् । याज्ञवल्कानि ब्राह्मणानि । आश्मरथः कल्पः । अणि आपत्यस्येति यलोपः ॥ शौनकादिभ्यश्छन्दसि ।४।१०६॥ छन्द
१ सिन्धु, वर्ण, मधुमत् , कम्बोज, साल्व, कश्मीर, गन्धार, किष्किन्धा, उरसा, दरद, गन्दिका । इति सिन्ध्वादिः॥ २ तक्षशिला, वत्सोद्धरण, केमदुर, ग्रामणी, छगल, कोष्टकर्ण, सिंहकर्ण, संकुचित, किंनर, काण्डधार, पर्वत, अवसान, बर्बर, कंस । इति तक्षशिलादिः॥ ३ सर्वत्रासा सर्व वात्र वसतीति वासुः । बाहुलकादुण, स चासौ देवश्च वासुदेवः । तेन गोत्रक्षत्रियाख्याभावाद्वनो विधानं सार्थकम् ॥ ४ कण्वादिभ्य इत्यण ॥ कण्वादिर्गाद्यन्तर्गणः॥ ५ शौनक. वाजसनेय. शाहरव. शापेय. शाष्पेय, खाडायन, स्तम्भ, स्कन्ध, देवदर्शन, रज्जुभार, रज्जुकण्ठ, कठशाठ, कषाय, तल, दण्ड, पुरुषांसक, अश्वपेज। इति शौनकादिः॥