________________
तद्धितेषु शैषिकाः।
१२७ वादः । आर्गयनः । औपनिषदः । वैयाकरणः । तत आगतः।४।३७४ ॥ स्रुघ्नादागतः स्रौनः ॥ ठगायस्थानेभ्यः ।४।३।७५ ॥ शुल्कशालाया आगतः शौल्कशालिकः ॥ शुण्डिकादिभ्योऽण् ।४।३।७६ ॥ आयस्थानठकश्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः । तैर्थः ॥ विद्यायोनिसंबन्धेभ्यो वुञ्।४।३७७॥ औपाध्यायकः । पैतामहकः ॥ ऋतष्ठञ् ।४।३।७८ ॥ वुञोऽपवादः । हौतृकम् । भ्रातृकम् ॥ पितुर्यच्च ।४।३७९ ॥ चाहञ् । रीङ् ऋतः । यस्येति लोपः । पित्र्यम् । पैतृकम् ।। गोत्रादकवत् ।४।३।८०॥ बिदेभ्य आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् । नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ७३३०॥ नञः परेषां शुच्यादिपञ्चानामादेरचो वृद्धिः पूर्वपदस्य तु वा जिदादौ परे । आशौचम् । अशौचम् । आनैश्वर्यम् । अनैश्वर्यम् । आक्षेत्रज्ञम् । अक्षैत्रज्ञम् । आकौशलम् अकौशलम् । आनैपुणम् । अनैपुणम् ॥ हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः।४।३२८१॥ समादागतं समरूप्यम् । विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम् । देवदत्तीयम् । दैवदत्तम् ॥ मयट् च ।४।३२८२॥ सममयम् विषममयम् । देवदत्तमयम् ॥ प्रभवति । ४३८३ ॥ तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा ॥ विदूराञ् ज्यः।४।३१८४॥ विदूरात्प्रभवति वैदूर्यो मणिः ॥ तद्गच्छति पथिदूतयोः।४।३२८५ ॥ स्रुघ्नं गच्छति सौनः पन्था दूतो वा ॥ अभिनिष्क्रामति द्वारम् ।४।३।८६॥ तदित्यव । स्रुघ्नमभिनिष्कामति सौप्नं कान्यकुलद्वारम् ॥ अधिकृत्य कृते ग्रन्थे ।४।३।८७॥ तदित्येव ॥ शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः । शारीरकं भाष्यमिति त्वभेदोपचारात् ॥ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः।४।३३८८॥ शिशूनां क्रन्दनं शिशुक्रन्दः तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । क्लीबत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्धभोजनीयम् ॥ सोऽस्य निवासः ।४।३२८९ ॥ स्रुघ्नो निवासोऽस्य स्रौनः ॥ अभिजनश्च । ४।३।९० ॥ सुनोऽभिजनोऽस्य सौन्नः । यत्र खयं वसति स निवासः । यत्र पूर्वैरुषितं सोऽभिजन इति विवेकः ॥ आयुधजीविभ्यश्छः पर्वते ।४।३९१ ॥ पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः पर्वतोऽभिजनो येषामायुधजीविनां ते हृद्गोलीयाः । आयुधेति किम् । ऋक्षोदः पर्वतोऽभिजनो येषां ते आझेदा द्विजाः॥ शण्डि
१ शुण्डिक, कृकण, कृपण, स्थण्डिल, उदपान, उपल, तीर्थ, भूमि, तृण, पर्ण । इति शुण्डिकादिः॥ २ इन्द्रजनन, प्रद्युम्नागमन, सीताम्वेषण, विरुद्धभोजन । इति इन्द्रजननादिराकृतिगणः ॥ ३ द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः ॥ * ॥ दैवासुरम् । राक्षोसुरम् । गौणमुख्यम् ॥ ४ शण्डिक, सर्वसेन, सर्वकेश, शक, शट, रक, शङ्ख, बोध । इति शण्डिकादिः॥