________________
सिद्धान्तकौमुद्याम्
1
1
भवमान्तर्वेश्मिकम् । आन्तर्गणिकम् । अध्यात्मादेष्ठमिष्यते || अध्यात्मं भवमाध्यात्मिकम् ॥ अनुशंतिकादीनां च | ७|३|२० ॥ एषामुभयपदवृद्धिः स्यात् ञिति णिति किति च । आधिदैविकम् । आधिभौतिकम् । ऐहलौकिकम् । पारलौकिकम् । अध्यात्मादिराकृतिगणः ॥ देविकाशिंशपादित्यवादीर्घसत्रश्रेयसामात् । ७|३ | १ ॥ एषां पञ्चानां वृद्धिप्राप्तावादेरच आत् ञिति णिति किति च । दाविकम् । देविकाकूले भवा दावि - काकूलाः शालयः । शिंशपाया विकारः शशिपश्चमसः । पलाशादिभ्यो वेत्यञ् । दित्यौह इदं दात्यौहम् । दीर्घसत्रे भवं दार्घसत्रम् । श्रेयसि भवं श्रायसम् ॥ ग्रामात्पर्यनुपूर्वात् । ४।३।६१ ॥ ठञ् स्यात् । अव्ययीभावादित्येव । पारिश्रामिकः । आनुग्रामिकः ॥ जिह्वामूलाङ्गुलेइछः |४|३|६२ ॥ जिह्वामूलीयम् । अङ्गुलीयम् || वर्गान्ताच |४|३|६३ ॥ कवर्गीयम् ॥ अशब्दे यत्खावन्यतरस्याम् |४| ३|६४ || पक्षे पूर्वेण छः । मद्वर्ग्यः । मद्वर्गीणः । मद्वर्गीयः । अशब्दे किम् । कवर्गीयो वर्णः || कर्णललाटात्कनलंकारे । ४|३|६५ || कर्णिका । ललाटिका ॥ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ।४।३।६६ ।। सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् ॥ बह्वचोऽन्तोदात्ताट्ठञ् ।४।३।६७ ।। षत्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा षात्वणत्विकः ॥ ऋतुयज्ञेभ्यश्च | ४ | ३ |६८ || सोमसाध्येषु यागे - ष्वेतौ प्रसिद्धौ तत्रान्यतरोपादानेन सिद्धे उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यते । अग्निष्टोमस्य व्याख्यानस्तत्र भवो वा आग्निष्टोमिकः । वाजपेयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं खरूपविधिनिरासार्थम् । अनन्तोदात्तार्थ आरम्भः ॥ अध्यायेष्वेवर्षेः । ४।३।६९ || ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्ठेन दृष्टो मन्त्रो वसिष्ठस्तस्य व्याख्यानस्तत्र भवो वा वासिष्ठिकोऽध्यायः । अध्यायेषु किम् । वासिष्ठी ऋक् ॥ पौरोडाशपुरोडाशात्छन् |४३|७० ॥ पुरोडाशसहचरितो मन्त्रः पुरोडाशः स एव पौरोडाशः ततः ष्ठन् । पौरोडाशिकः । पुरोडाशिकः ॥ छन्दसो यदी | ४|३|७१ ॥ छन्दस्यः । छान्दसः ॥ व्यह्राह्मणकथमाध्वरपुरश्चरणनामाख्याताट्ठक् |४|३|७२ ॥ व्यच् ऐष्टिकः । पाशुकः । ऋतू, चातुर्होतृकः । ब्राह्मणिकः । आर्चिकः । इत्यादि || अणुगैयनादिभ्यः | ४ | ३ |७३ ॥ ठञादेरप
"
१२६
१ अध्यात्म, अधिदेव, अधिभूत, इहलोक, परलोक । इत्यध्यात्मादिराकृतिगणः ॥ २ अनुशतिक, अनुहोड, अनुसंवरण, अनुसंवत्सर, अङ्गारवेणु, असिहत्य, अस्यहत्य, अस्यहेति, वध्योग, पुष्करसद्, अनुहरत्, कुरुकत, कुरुपञ्चाल, उदकशुद्ध, इहलोक, परलोक, सर्वलोक, सर्वपुरुष, सर्वभूमि, प्रयोग, परस्त्री, राजपुरुषात् ष्यञि, सूत्रनड | आकृतिगणोऽयम् । तेन-अधिगम, अधिभूत, अधिदेव, चतुर्विधा इत्यादिनुशतिकादिः ॥ ३ ऋगयन, पदव्याख्यान, छन्दोमान, छन्दोभाषा, छन्दोविचिति, न्याय पुनरुक्त, निरुक्त, व्याकरण, निगम, वास्तुविद्या, क्षत्रविद्या, अङ्गविद्या, विद्या, उत्पात, उत्पाद, उद्याव संवत्सर, उपनिषद्, मुहूर्त, निमित्त, शिक्षा, भिक्षा । इत्यृगयनादिः ॥