________________
तद्धितेषु शैषिकाः।
१२५ स्रौनः । कोशाड्डञ् ।४।३।४२॥ कौशेयं वस्त्रम् ॥ कालात्साधुपुष्प्यत्पच्यमानेषु ।४।३।४३ ॥ हेमन्ते साधुहेमन्तः प्राकारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः॥ उप्ते च ।४।३।४४ ॥ हेमन्ते उप्यन्ते हैमन्ता यवाः ॥ आश्वयुज्या वुञ् ।४।३।४५ ॥ ठोऽपवादः । आश्वयुज्यामुप्ता आश्वयुजका माषाः ॥ ग्रीष्मवसन्तादन्यतरस्याम् ।४।३।४६ ॥ पक्षे ऋत्वण् । ग्रैष्मकम् । गृष्मम् । वासन्तकम् । वासन्तम् ॥ देयमृणे ।४।३।४७॥ कालादित्येव । मासे देयमृणं मासिकम् ॥ कलाप्यश्वत्थयवबुसाहुन् ।४।३।४८॥ यस्मिन् काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी तत्र देयमृणं कलापकम् । अश्वत्थस्य फलमश्वत्थस्तद्युक्तः कालोऽप्यश्वत्थः । यस्मिन् कालेऽश्वत्थाः फलन्ति तत्र देयमश्वत्थकम् । यस्मिन् यवबुसमुत्पद्यते तत्र देयं यवबुसकम् ॥ ग्रीष्मावरसमागुञ् ।४।३।४९॥ ग्रीष्मे देयमृणं गृष्मकम् । आवरसमकम् । संवत्सराग्रहायणीभ्यां ठश्च ॥४॥३॥५०॥ चादुञ । सांवत्सरिकम् । सांवत्सरकम् । आग्रहायणिकम् । आग्रहायणकम् ॥ व्याहरति मृगः ॥४॥३॥५१॥ कालवाचिनः सप्तम्यन्ताच्छब्दायत इत्यर्थे अणादयः स्युः यो व्याहरति स मृगश्चेत् । निशायां व्याहरति नैशो मृगः । नैशिकः ॥ तदस्य सोढम् ।४३।५२॥ कालादित्येव । निशासहचरितमध्ययनं निशा तत्सोढमस्य नैशः । नैशिकः ॥ तत्र भवः।४।३।५३ ॥ सुघ्ने भवः स्रौनः । राष्ट्रियः ॥ दिगोदिभ्यो यत् ।४।३।५४ ॥ दिश्यम् । वर्म्यम् ॥ शरीरावयवाच्च ।४।३॥५५॥ दन्त्यम् । कर्ण्यम् ॥ प्राचां नगरान्ते ।।३।२४॥ प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्मिति णिति किति च । सुमनगरे भवः सौमनागरः । पौर्वनागरः । प्राचां किम् । मनगरमुदक्षु तत्र भवो मानगरः ॥ जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ।७३।२५ ॥ जङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य वा निति णिति किति च । कुरुजङ्गले भवं कौरुजङ्गलम् । कौरुजाङ्गलम् । वैश्वधेनवम् । वैश्वधैनवम् । सौवर्णवलजम् । सौवर्णवालजम् ॥ दृतिकुक्षिकलशिबस्त्यस्त्यहेढञ् ।४।३॥५६॥ दार्तेयम् । कौक्षेयम् । कलशिर्घटः तत्र भवं कालशेयम् । बास्तेयम् । आस्तेयम् । आहेयम् ॥ ग्रीवाभ्योऽण् च ।४।३।५७ ॥ चात् ढञ् । अवेयम् । ग्रैवम् ॥ गम्भीरायः ।४।३।५८ ॥ गम्भीरे भवं गाम्भीर्यम् ॥ अव्ययीभावाच ।४।३।५९ ॥ परिमुखं भवं पारिमुख्यम् ॥ परिमुखादिभ्य एवेष्यते * ॥ नेह । औपकूलः ।। अन्तःपूर्वपदाञ्।४।३।६०॥ अव्ययीभावादित्येव । वेश्मनि इति अन्तर्वेश्मम् । तत्र
१ दिश् , वर्ग, पूग, गण, पक्ष, धाय्या, मित्र, मेधा, अन्तर, पथिन् , रहस् , अलीक, उखा, साक्षिन् , देश, आदि, अन्त, मुख, जघन, मेष, यूथ, उदकात्संज्ञायाम् , न्याय, वंश, वेश, काल, आकाश । इति दिगादिः॥ २ पञ्चजनादुपसंख्यानम् * ॥ पाञ्चजन्यः ॥ ३ परिमुख, परिहनु, पर्योष्ठ, पर्युलूखल, परिसीर, उपसीर, उपस्थूण, उपकलाप, अनुपथ, अनुपद, अनुगङ्ग, अनुतिल, अनुसीत, अनुसाय, अनुसीर, अनुमाष, अनुयव, अनुयूप, अनुवंश, प्रतिशाख । इति परिमुखादिः॥