________________
१२४
सिद्धान्तकौमुद्याम् भावात् ॥ सुसर्वार्धाजनपदस्य ।।३।१२ ॥ उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । अर्धपाञ्चालकः । जनपदतदवध्योरिति वुञ् । सुसर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधिः॥ दिशोऽमद्राणाम् ।७३।१३ ॥ दिग्वाचकाजनपदवाचिनो वृद्धिः । पूर्वपाञ्चालकः । दिशः किम् । पूर्वपञ्चालानामयं पौर्वपञ्चालः । अमद्राणां किम् । पौर्वमद्रः । योगविभाग उत्तरार्थः ॥ प्राचां ग्रामनगराणाम् ॥३॥१४॥ दिशः परेषां नगरवाचिनां ग्रामवाचिनामङ्गानामवयवस्य च वृद्धिः । पूर्वेषुकामशम्यां भवः पूर्वेषुकामर्शमः । नगरे, पूर्वपाटलिपुत्रकः ॥ पूर्वाह्नापराह्ना मूलप्रदोषावस्कराहुन् ।४।३२२८ ॥ पूर्वाहकः । अपरालकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ॥ पथः पन्थ च ।४।३।२९ ॥ पथि जातः पन्थकः ॥ अमावास्याया वा ४॥३॥३०॥ अमावास्यकः । आमावास्यः ॥ अ च ।४।३।३१ ॥ अमावास्यः ॥ सिन्ध्वपकराभ्यां कन् ।४।३।३२ ॥ सिन्धुकः । कच्छाद्यणि मनुष्यवुनि च प्राप्ते । अपकरकः । औत्सर्गिकेऽणि प्राप्ते ॥ अणजौ च ।४।
२३३ ॥ क्रमात् स्तः । सैन्धवः । आपकरः ॥ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् ।४।३३४ ॥ एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् ॥ लुक् तद्धितलुकि शरा४९ ॥ तद्धितलुकि सत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुनः । इत्यादि ॥ चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम् * ॥ चित्रायां जाता चित्रा । रेवती । रोहिणी । आभ्यां लुक्तद्धितलुकीति लुकि कृते पिपल्यादेराकृतिगणत्वात्पुनर्जीष् ॥ फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ * ॥ स्त्रियामित्येव । फल्गुनी ॥ अषाढा ॥ श्रविष्ठाषाढाभ्यां छण्वक्तव्यः * ॥ अस्त्रियामपि । श्राविष्ठीयः । आषाढीयः ॥ जे प्रोष्ठपदानाम् ॥३॥१८॥ प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे निति णिति किति च । प्रोष्ठपदासु जातः प्रोष्ठपादो माणवकः । जे इति किम् । प्रोष्ठपदासु भवः प्रौष्ठपदः । बहुवचननिर्देशात्पर्यायोऽपि गृह्यते । भाद्रपादः ॥ स्थानान्तगोशालखरशालाच ।४।३।३५ ॥ एभ्यो जातार्थप्रत्ययस्य लुक् स्यात् । गोस्थानः । गोशालः । खरशालः । विभाषा सेनेति नपुंसकत्वे ह्रखत्वम् ॥ वत्सशालाभिजिदश्वयुक्शतभिषजो वा ।४।३।३६॥ एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशालः । वात्सशालः । इत्यादि ॥ जातार्थे प्रतिप्रसूतोऽण्या डिद्वक्तव्यः ॥ शातभिषः । शातभिषजः । शतभिषक् ॥ नक्षत्रेभ्यो बहुलम् ।४।३।३७॥ जातार्थप्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः । रौहिणः ॥ कृतलब्धक्रीतकुशलाः।४। ३॥३८॥ तत्रेत्येव । स्रुघ्ने कृतो लब्धः क्रीतः कुशलो वा स्रौनः ॥ प्रायभवः।४।३।३९॥ तत्रेत्येव । सुघ्ने प्रायेण बाहुल्येन भवति स्रौनः ॥ उपजानूपकर्णोपनीवेष्ठक् ।४३। ४०॥ औपजानुकः । औपकर्णिकः । औपनीविकः ॥ संभूते ।४३४१ ॥ सुघ्ने संभवति
१ पूर्वेषुकामशम्यादिः समुदायो प्रामनामधेयम् । पूर्वपाटलिपुत्रादौ उत्तरपदमेव नगरमाहेति वृत्तिः ।