________________
तद्धितेषु शैषिकाः।
१२३ तिकः । पौनःपुनिकः । कथं तर्हि शार्वरस्य तमसो निषिद्धये इति कालिदासः, अनुदितौषसरागेति भारविः, समानकालीनं प्राकालीनमित्यादि च । अपभ्रंशा एवैत इति प्रामाणिकाः॥ तत्र जात इति यावत्कालाधिकारः ॥ श्राद्धे शरदः।४।३।१२॥ अञ् स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् ॥ विभाषा रोगातपयोः।४।३।१३ ।। शारदिकः शारदो वा रोग आतपो वा । एतयोः किम् । शारदं दधि ॥ निशाप्रदोषाभ्यां च ।४।३।१४॥ वा ठञ् स्यात् । नैशिकम् । नैशम् । प्रादोषिकम् । प्रादोषम् । श्वसस्तुट् च ।४।३॥१५॥ श्वसूशब्दाट्ठञ् वा स्यात्तस्य तुडागमश्च ॥ द्वारादीनां च ।७३४॥ द्वार, खर, व्यल्कश, खस्ति, स्वर, स्फ्यकृत् , खादु, मृदु, श्वस , श्वन् , ख एषां न वृद्धिरैजागमश्च । शौवस्तिकम् ॥ संधिवेलांतुनक्षत्रेभ्योऽण् ।४।३।१६ ॥ संधिवेलादिभ्य ऋतृभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण् स्यात् । सन्धिवेलायां भवं सान्धिवेलम् । श्रेष्मम् । तैषम् । सन्धिवेला, संध्या, अमावास्या, त्रयोदशी, चतुर्दशी, पौर्णमासी, प्रतिपत् , ॥ संवत्सरात् फलपर्वणोः * ॥ सांवत्सरं फलं पर्व वा । सांवत्सरिकमन्यत् ॥ प्रावृष एण्यः ।४।३।१७ ॥ प्रावृषेण्यः ॥ वर्षाभ्यष्टक् ।४।३।१८ ॥ वर्षासु साधु वार्षिकं वासः । कालात्साधुपुष्प्यत्पच्यमानेष्विति साध्वर्थे । सर्वत्राण च तलोपश्च ।४२२२॥ हेमन्तादण् स्यात्तलोपश्च वेदलोकयोः । चकारात्पक्षे ऋत्वण ॥ हैमनम् । हैमन्तम् ॥ सायंचिरंगमाहेप्रगेऽव्ययेभ्यष्ट्युट्युलो तुट् च ।४।३।२३ ॥ सायमित्यादिभ्यश्चतुभ्योऽव्ययेभ्यश्च कालवाचिभ्यष्टयुट्युलौ स्तस्तयोस्तुट् च । तुटः प्रागनादेशः । अनद्यतन इत्यादिनिर्देशात् । सायन्तनम् । चिरन्तनम् । प्राणप्रगयोरेदन्तत्वं निपात्यते । प्रालेतनम् । प्रगेतनम् । दोषातनम् । दिवातनम् ॥ चिरपरुत्परारिभ्यस्नो वक्तव्यः * ॥ चिरत्नम् ॥ परुत्नम् । परारित्नम् ॥ अग्रादिपश्चाड्डिमच् * ॥ अग्रिमम् । आदिमम् । पश्चिमम् ॥ अन्ताच्च * ॥ अन्तिमम् ॥ विभाषा पूर्वाह्नापराहाभ्याम् ।४।३।२४ ॥ आभ्यां ट्युट्यलौ वा स्तस्तयोस्तुट् च । पक्षे ठञ् । पूर्वाह्नेतनम् । अपराह्नेतनम् । घकालतनेष्वित्यलुक् । पूर्वाह्नः सोढोऽस्येति विग्रहे तु पूर्वाह्नतनम् । अपराहतनम् । पौर्वाह्निकम् । आपराह्निकम् ॥ तत्र जातः ।४।३।२५ ॥ सप्तमीसमर्थाजात इत्यर्थेऽणादयो घादयश्च स्युः । सुन्ने जातः स्रौनः । औत्सः । राष्ट्रियः । अवारपारीणः इत्यादि ॥ प्रावृषष्ठप ।४।३।२६ ॥ एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः ॥ संज्ञायां शरदो वुञ् ।४।३।२७ ॥ ऋत्वणोऽपवादः । शारदका दर्भविशेषा मुद्गविशेषाश्च ॥ उत्तरपदस्य ७॥३॥१०॥ अधिकारोऽयम् । हनस्त इत्यस्मात्प्राक् ॥ अवयवाहतोः ७७३।११ ॥ अवयववाचिनः पूर्वपदाहतुवाचिनोऽचामादेरचो वृद्धिः स्यात् जिति णिति किति च तद्धिते परे । पूर्ववार्षिकः । अपरहैमनः । अवयवात्किम् । पूर्वासु वर्षासु भवः पौर्ववर्षिकः । ऋतोवृद्धिमद्विधाववयवानामिति तदन्तविधिः पूर्वत्र । इह तु न । अवयवत्वा
१ अयं गणो मूल एवोक्तः। २ अयमपि मूले पठितः परं खत्र शश्वतो वेति पाठ्य मिति शेखरकृतोक्तम् ।