________________
१२२
सिद्धान्तकौमुद्यम्
अव्ययानां भमात्रे टिलोपस्यानित्यतां ज्ञापयितुमिदम् ॥ कुग्जनस्य परस्य च * ॥ जनकीयम् ॥ परकीयम् ॥ देवस्य च * ॥ देवकीयम् ॥ खस्य च * ॥ स्वकीयम् ॥ वेणुकादिभ्यश्छण्वाच्यः * ॥ वैणुकीयम् । वैत्रकीयम् । औत्तरपदकीयम् ॥ प्राचां कटादेः ॥४।२।१३९ ॥ प्राग्देशवाचिनः कटादेश्छः स्यात् । अणोऽपवादः । कटनगरीयम् । कटघोषीयम् । कटपल्वलीयम् ॥ राज्ञः क च |४ |२| १४० ॥ वृद्धत्वाच्छे सिद्धे तत्संनियोगेन कादेशमात्र विधीयते । राजकीयम् ॥ वृद्धादकेकान्तखोपधात् |४ |२| १४१ ॥ अक इक एतदन्तात्खोपधाच्च वृद्धाद्देशवाचिनश्छः स्यात् । ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा आयुधजी - विनस्तत्र जातो ब्राह्मणकीयः । शाल्मलिकीयः । अयोमुखीयः ॥ कन्थापलदनगरग्रामहदोत्तरपदात् ||४|२|१४२ || कन्थादिपञ्चकोत्तरपदादेशवाचिनो वृद्धाच्छः स्यात् । ठञ्ञिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दाक्षिनगरीयम् । दाक्षिग्रामीयम् । दाक्षिहृदीयम् ॥ पर्वताच्च । ४।२।१४३ ॥ पर्वतीयः ॥ विभाषाऽमनुष्ये |४ |२| १४४ ॥ मनुष्मभिन्नेऽर्थे पर्वताच्छो वा स्यात्पक्षेऽण् । पर्वतीयानि पार्वतानि वा फलानि । अमनुष्ये किम् । पर्वतीयो मनुष्यः ॥ कृकणपर्णाद्भारद्वाजे |४| २ | १४५ ॥ भारद्वाजदेशवाचि - भ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् । कार्कणम् । पार्णम् । युष्मदस्मदोरन्यतरस्यां खञ्च | ४ | ३ | १ ॥ चाच्छः । पक्षेऽण् । युवयोर्युष्माकं वा अयं युष्मदीयः । अस्मदीयः ॥ तस्मिन्नणि च युष्माकास्माकौ |४|३|२ || युष्मदस्मदोरेतावादेशौ स्तः खञ्यणि च || यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः || तवकममकावेकवचने | ४ | ३ | ३ || एकार्थवा चिनोर्युष्मदस्मदोस्तवकममकौ स्तः खयणि च । तावकीनः । तावकः । मामकीनः । मामकः । छे तु ॥ प्रत्ययोत्तरपदयोश्च |७|२| ९८ ॥ मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः ॥ अर्धाद्यत् |४|३|४ ॥ अर्ध्यः ॥ परावराधमोत्तमपूर्वाच्च | ४|३|५ || परार्ध्यम् । अवरार्ध्यम् । अधमार्घ्यम् । उत्तमार्ध्यम् ॥ दिक्पूर्वपदाट्ठञ्च | ४|३|६|| चाद्यत् । पौर्वार्धिकम् । पूर्वार्ध्यम् || ग्रामजनपदैकदेशादञ्ठ | ४|३|७ || ग्रामैकदेशवाचिनो जनपदैकदे - शवाचिनश्च दिक्पूर्वपदादर्घान्तादज्ञौ स्तः । इमेऽस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः । पौर्वार्धिकाः । ग्रामस्य पूर्वस्मिन्नर्थे भवा इति तद्धितार्थे समासः । ठञ्ग्रहणं स्पष्टार्थम् । अञ्चेत्युक्ते ततोऽप्यनुकर्षः संभाव्येत ॥ मध्यान्मः |४|३|८ || मध्यमः ॥ अ सांप्रति | ४ | ३ | ९ || मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रखं नातिदीर्घमित्यर्थः ॥ द्वीपादनुसमुद्रं यञ् ||४|३| १० ॥ समुद्रस्य समीपे यो द्वीपस्तद्विषयाद्वीपशब्दाद्यञ् स्यात् । द्वैप्यम् । द्वैप्या ॥ कालाट्ठञ् |४|३|११ ॥ कालवाचिभ्यष्ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायंप्रा
१ वेणुकादिराकृतिगणः ॥