________________
तद्धितेषु शैषिकाः ।
१२१
I
दात्, दार्वकः । वृद्धाज्जनपदावधेः, कालञ्जरकः । विषयग्रहणं किम् । एकशेषेण बहुत्वे मा भूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः, तासु भवो वार्तनः || कच्छाग्निवक्रवर्तीत्तरपदात् |४|२|१२६ || देशवाचिनो वृद्धादवृद्धाच्च वुञ् स्यात् । दारुकच्छकः काण्डानकः । सैन्धुवत्रकः । बाहुवर्तकः ॥ धूमादिभ्यश्च । ४।२।१२७ ॥ देशवाचिभ्यो वुञ् धौमकः । तैर्थकः ॥ नगरात्कुत्सनप्रावीण्ययोः | ४|२| १२८ || नगरशब्दाद्वुञ् स्यात्कुत्सने प्रावीण्ये च गम्ये । नागरकश्चौरः शिल्पी वा । कुत्सनेति किम् । नागरा ब्राह्मणाः ॥ अरण्यान्मनुष्ये |४|२|१२९ ॥ वुञ् । अरण्याण इत्यस्यापवादः ॥ पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वाच्यम् ॥ आरण्यकः पन्थाः अध्यायो न्यायो विहारो मनुष्य हस्ती वा ॥ वा गोमयेषु * || आरण्यकाः आरण्या वा गोमयाः ॥ विभाषा कुरुयुगन्धराभ्याम् ।४।२।१३० ॥ वुञ् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः ॥ मद्रवृज्योः कन् ।४।२।१३१ ॥ जनपदवुञोऽपवादः । मद्रेषु जातो मद्रकः । वृजिकः ॥ कोपा |४|२| १३२ ॥ माहिषिकः || कच्छादिभ्यश्च |४| २|१३३ ॥ देशवाचि - 、 भ्योणू । वुञादेरपवादः । काच्छः । सैन्धवः ॥ मनुष्यतत्स्थयोर्बुञ् ।४।२।१३४ ॥ कच्छाद्यणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः । काच्छकं हसितम् । मनुष्येति किम् । काच्छो गौः ॥ अपदातौ साल्वात् | ४|२| १३५ ॥ साल्वशब्दस्य कच्छादि - त्वाद्वुञि सिद्धे नियमार्थमिदम् । अपदातावेवेति । साल्वको ब्राह्मणः । अपदात किम् । साल्वः पदातिर्व्रजति ॥ गोयवाग्वोश्च ।४।२।१३६ ॥ साल्वाद्वुञ् । कच्छाद्यणोऽपवादः । सावको गौः । साल्विका यवागूः । साल्वमन्यत् ॥ गर्वोत्तरपदाच्छः |४।२।१३७ ॥ देशे । अणोऽपवादः । वृकगर्तीयम् । उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम् ॥ गैहादिभ्यश्च ।४।२।१३८ ॥ छः स्यात् । गहीयः ॥ मुखपार्श्वतसोर्लोपश्च * ॥ मुखतीयम् । पार्श्वतीयम् ।
1
4
१ अत्र सूत्रे गर्तेति कैश्चित्पठ्यते तत् जनपदतदवध्योरिति सूत्रस्थभाष्यविरुद्धम् ॥ २ धूम, षण्ड, शशादन, अर्जुनाव, माहकस्थली, आनकस्थली, महिषस्थली, मानस्थली, अट्टस्थली, मद्रकस्थली, समुद्रस्थली, दाण्डायनस्थली, राजस्थली, राजगृह, विदेह, सात्रा साह, शष्प, मित्रवर्ध, मज्जाली, मद्रकूल, आजीकूल, थाहाव, त्र्याहाव, संस्फाय, बर्बर, वर्ज्य, गर्त, आनर्त, माठर, पाथेय, घोष, पल्ली, आराज्ञी, धार्तराज्ञी, आवय, तीर्थ, कूलात्सौवीरेषु, समुद्रान्नावि मनुष्ये च । कुक्षि, अन्तरीप, द्वीप, अरुण, उज्जयनी, पट्टार, दक्षिणापथ, साकेत । इति धूमादिः ॥ ३ कच्छ, सिन्धु, वर्ण, गन्धार, मधुमत्, कम्बोज, काश्मीर, साल्व, कुरु, अनुषण्ड, द्वीप, अनूप, अजवाह, विजापक, कलूतर, रङ । इति कच्छादिः ॥ ४ गह, अन्तःस्थ, सम, विषम, मध्य, मध्यंदिन चरणे, उत्तम, अङ्ग, वङ्ग मगध, पूर्वपक्ष, अपरपक्ष, अधमशाख, उत्तमशाख, एकशाख, समानशाख, एकप्राम, समानग्राम, एकवृक्ष, एकपलाश, इष्वग्र, इष्वनीक, अवस्यन्दन, कामप्रस्थ, खाडायन, काठेरणि, लावेरणि, सौमित्रि, शैशिरि, आसुत, दैवशर्मिं, श्रोती, आहिंसि, आमित्रि, व्याडि, वैजि, आध्याश्वि, आनृशंसि, शौङ्गि, आग्निशर्मि, भौजि, वाराटकि, वाल्मीकि, 'क्षैमवृद्धि, आश्वत्थि, औगाहमानि, ऐकविन्दवि, दन्ताग्र, हंस, तन्त्वय, उत्तर, अनन्तर, मुखपार्श्वतसोर्लोपः, जनपदयोः कुक्च, देवस्य च । इति गद्दादिराकृतिगणः ॥
१६