________________
१२०
सिद्धान्तकौमुद्याम् संज्ञं स्यात् ॥ त्यंदादीनि च ।।१।७४ ॥ वृद्धसंज्ञानि स्युः ॥ वृद्धाच्छः ।४।२। ११४ ॥ शालीयः । मालीयः । तदीयः ॥ ए. प्राचां देशे ।।१७५ ॥ एङ् यस्यावामादिस्तद्वृद्धसंज्ञं वा स्याद्देशाभिधाने । एणीपचनीयः । गोनीयः । भोजकटीयः । पक्षे अणि । ऐणीपचनः । गौनर्दः । भौजकटः । एङ्ग किम् । आहिच्छत्रः । कान्यकुब्जः ॥ वा नामधेयस्य वृद्धसंज्ञा वक्तव्या * ॥ देवदत्तः । देवदत्तीयः ॥ भवतष्ठक्छसौ ।४।२। ११५ ॥ वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् । भवदीयः । वृद्धादित्यनुवृत्तेः शत्रन्तादणेव । भावतः ॥ काश्यादिभ्यष्ठचिठौ ।४।२।११६ ॥ इकार उच्चारणार्थः । काशिकी । काशिका । बैदिकी । बैदिका ॥ ऑपदादिपूर्वपदात्कालान्तात् * ॥ आपदादिराकृतिगणः । आपत्कालिकी । आपत्कालिका ॥ वाहीकग्रामेभ्यश्च ।४।२।११७ ॥ वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठझिठौ स्तः । छस्यापवादः । कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी । कास्तीरिका ॥ विभाषोशीनरेषु ।४।२।११८ ॥ एषु ये ग्रामास्तद्वाचिभ्यो वृद्धभ्यष्ठझिठौ वा स्तः । सौदर्शनिकी । सौदर्शनिका । सौदर्शनीया ॥ ओर्देशे ठञ् ।४।२।११९ ॥ उवर्णान्ताद्देशवाचिनष्ठञ् । निषादकर्तेः, नैषादकर्षकः । केऽण इति इखः । देशे किम् । पटोश्छात्राः पाटवाः । जिठं व्यवर्तयितुं ठग्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकर्षकः ॥ वृद्धात्प्राचाम् ।४।२।१२० ॥ प्राग्देशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । आढकजम्बुकः । शाकजम्बुकः । नेह मल्लवास्तु, माल्लवास्तवः ॥ धन्वयोपधाद्वञ् ।४।२।१२१ ॥ धन्वविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धादुञ् स्यात् । ऐरावतं धन्व ऐरावतकः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्छणादिसूत्रेण ण्यान्तौ । साङ्काश्यकः । काम्पिल्यकः ॥ प्रस्थपुरवहान्ताच ।४।२।१२२ ॥ एतदन्ताद्वद्धादेशवाचिनो वुञ् स्यात् । छस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । पैलुवहकः । पुरान्तग्रहणमप्रागर्थम् । प्राग्देशे तूत्तरेण सिद्धम् ॥ रोपधेतोः प्राचाम् ।४।२।१२३ ॥ रोपधादीकारान्ताच्च प्राग्देशवाचिनो वृद्धादुञ् स्यात् । पाटलिपुत्रकः । ईतः, काकन्दकः ॥ जनपदतदवध्योश्च ।४।२।१२४ ॥ जनपदवाचिनस्तदवधिवाचिनश्च वृद्धादुञ् स्यात् । आदर्शकः । त्रैगर्तकः ॥ अवृद्धादपि बहुवचनविषयात् ।४।२।१२५ ॥ अवृद्धाद्वद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाढुञ् स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । अवृद्धाजनपदात् , आङ्गकः । अवृद्धाजनपदावधेः, आजमीढकः । वृद्धाजनप
१ त्यदादिः सर्वाद्यन्तर्गणः ॥
२ काशि, वेदि, चेदि, सांयाति, संवाह, अच्युत, मोदमान, शकुलादहस्तिकर्पू, कुनाम, हिरण्य, करण, गोवासन, भारङ्गी, अरिन्दम, अरित्र, देवदत्त, दशग्राम, शौवावतान, युवराज, उपराज, देवराज, मोदन, सिन्धुमित्र, सुधामित्र, सोममित्र, छागमित्र, मधुमित्र । इति काश्यादिः॥ ..
३ आपद्, ऊर्ध्व, तद् । इत्यापदादिराकृतिगणः॥