________________
तद्धितेषु शैषिकाः।
११९ मधु । कापिशायनी द्राक्षा ॥ रङ्कोरमनुष्येऽण् च ।४२।१०० ॥ चात् ष्फक् । राकवो गौः । राकवायणः । अमनुष्य इति किम् । रॉकवको मनुष्यः॥ द्युप्रागपागुदक्प्रतीचो यत् ।४।२।१९१॥ दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥ कन्थायाष्ठक् ।४।२।१०२॥ कान्थिकः ॥ वर्णों वुक ।४।२।१०३ ॥ वर्णनंदस्तस्य समीपदेशो वर्णः तद्विषयार्थवाचिकन्थाशब्दाद्वक् स्यात् । यथा हि जातं हिमवत्सु कान्थकम् ॥ अव्ययात्त्यप ।४।२।१०४॥ अमेहक्वतसित्रेभ्य एव * ॥ अमाऽन्तिकसहार्थयोः । अमात्यः । इहत्यः । कत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम् । उपरिष्टाद्भव औपरिष्टः ॥ अव्ययानां भमात्रे टिलोपः * ॥ अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न । आरातीयः ।। त्यनेर्भुव इति वक्तव्यम् * ॥ नित्यः ॥ निसो गते * ॥ ह्रस्वात्तादौ तद्धिते।८३।१०१॥ हस्खादिणः परस्य सस्य षः स्याचादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्ठ्यश्चाण्डालादिः ॥ अरण्याण्णः * ॥ आरण्याः सुमनसः ॥ दूरादेत्यः * ॥ दूरेत्यः ॥ उत्तरादाहञ् * ॥ औत्तराहः ॥ ऐषमोह्यःश्वसोऽन्यतरस्याम् ।४।२।१०५ ॥ एभ्यस्त्यब्वा । पक्षे वक्ष्यमाणौ ट्युट्युलौ । ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्त्यम् । यस्तनम् । श्वस्त्यम् । श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते ॥ तीररूप्योत्तरपदादौ ।२।१०६॥ यथासंख्येन । काकतीरम् । पाल्वलतीरम् । शैवरूप्यम् । तीररूप्यान्तादिति नोक्तम् । बहुच्पूर्वान्मा भूत् । बाहुरूप्यम् ॥ दिक्पूर्वपदादसंज्ञायां जः।४।२।१०७॥ अणोऽपवादः । पौर्वशालः । असंज्ञायां किम् । संज्ञाभूतायाः प्रकृतेर्मा भूत् । पूर्वेषुकामशम्यां भवः पूर्वेषुकामशमः । प्राचा ग्रामनगराणामित्युत्तरपदवृद्धिः ॥ मद्रेभ्योऽञ् ।४।२।१०८॥ दिक्पूर्वपदादित्येव । दिशोऽमद्राणामिति मद्रपर्युदासादादिवृद्धिः पौर्वमद्रः । आपरमद्रः ॥ उदीच्यग्रामाच बह्वचोऽन्तोदात्तात् ।४।२।१०९॥ अञ् स्यात् । शैवपुरम् ॥ प्रस्थोत्तरपदपलद्यादिकोपधादण् ।४।२।११० ॥ माहिकिप्रस्थः । पालदः । नैलीनकः ॥ कण्वादिभ्यो गोत्रे ।४।२।१११ ॥ एभ्यो गोत्रप्रत्ययान्तेभ्योऽण् स्यात् । कण्वो गर्गादिः । काण्वस्य छात्राः काण्वाः ॥ इञश्च ।४।२।११२ ॥ गोत्रे य इञ् तदन्तादण् स्यात् । दाक्षाः । गोत्रे किम् । सौतङ्गमेरिदं सौतङ्गमीयम् । गोत्रमिह शास्त्रीयं न तु लौकिकम् । तेनेह न । पाणिनीयम् ॥ न वचः प्राच्यभरतेषु ।४।२।११३ ॥ इञश्चेत्यणोऽपवादः । प्रौष्ठीयाः । काशीयाः । भरतानां प्राच्यत्वेऽपि पृथगुपादानमन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य लिङ्गम् ॥ वृद्धिर्यस्याचामादिस्तदृद्धम् ।१।११७३ ॥ यस्य समुदायस्याचां मध्ये आदिवृद्धिस्तद्वृद्ध१ मनुष्यतत्स्थयोरिति वुञ् । रङ्कुः कच्छादिः ॥ २ तिङन्तस्य प्रतिषेधो वाच्यः ॥ * ॥ भिन्दुस्तराम् । छिन्दुस्तराम् ॥ ३ पलदी, परिषद्, रोमक, वाहीक, कलकीट, बहुकीट, जालकीट, कमलकीट, कमलकीकर, कमलभिद्, गोष्ठी, नैकती, परिखा, शूरसेन, गोमती, पटच्चरा, उदपान, यकृलोम । इति पलद्यादिः॥ ४ अयं गणः व्यघियकततमे १०३ पृष्ठे गर्गादिगणान्तर्गतो द्रष्टव्यः ॥