SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तकौमुद्याम् दिभ्यश्छः ।४।२९० ॥ उत्करीयः ॥ नंडादीनां कुक् च ।४।२।९१ ॥ नडकीयम् ।। क्रुश्चा हखत्वं च * ॥ क्रुञ्चकीयः ॥ तक्षन्नलोपश्च * ॥ तक्षकीयः ॥ बिल्वकादिभ्यश्छस्य लुक् ।।४।१५३ ॥ नडाद्यन्तर्गता बिल्वकादयस्तेभ्यश्छक् तद्धिते परे। बिल्वा यस्यां सन्ति सा बिल्वकीया । तस्यां भवा बैल्वकाः । वेत्रकीया । वैत्रकाः । छस्य किम् ॥ छमात्रस्य लुग्यथा स्यात्कुको निवृत्तिा भूत् । अन्यथा सन्नियोगशिष्टानामिति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रस्य स्यात् ।। ॥ इति चातुरर्थिकाः॥ शेषे ।४।२।९२ ॥ अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । शेष इति लक्षणं चाधिकारश्च । तस्य विकार इत्यतः प्राक् शेषाधिकारः ॥ राष्ट्रावारपाराद्धखौ ।४।२।९३ ॥ आभ्यां क्रमाद्धखौ स्तः शेषे । राष्ट्रियः अवारपारीणः ॥ अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम् * ॥ अवारीणः । पारीणः । पारावारीणः । इह प्रकृतिविशेषाद्धादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥ ग्रामाद्यखौ ।४।२।९४ ॥ ग्राम्यः । ग्रामीणः । कत्र्यादिभ्यो ढकञ् ।४।२।९५ ॥ कुत्सितास्त्रयः कत्रयः । तत्र जातादिः कात्रेयकः ॥ नागरेयकः ॥ प्रामादित्यनुवृत्तेः ग्रामेयकः ॥ कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु । ४।२।९६॥ कौलेयकः श्वा । कौलोऽन्यः । कौक्षेयकोऽसिः । कौक्षोऽन्यः । अवेयकोऽलङ्कारः। ग्रैवोऽन्यः ॥ नद्यादिभ्यो ढक ४९७॥ नादेयम् । माहेयम् । वाराणसेयम् ॥ दक्षिणापश्चात्पुरसस्त्यक् ।४।२।९८ ॥ दक्षिणेत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः ॥ कापिश्याः फक्।४।२।९९॥ कापिश्यां जातादि कापिशायनं शूर्पणाय, श्यावनाय, नैवाकव, तृण, वृक्ष, शाक, पलाश, विजिगीषा, अनेक, आतप, फल, संपर, अर्क, गर्त, अग्नि, वैराणक, इडा, अरण्य, निशान्त, पर्ण, निचायक, शंकर, अवरोहित, क्षार, विशाल, वेत्र, अरीहण, खण्ड, वातागार, मन्त्रणाह, इन्द्रवृक्ष, नीतान्तवृक्ष, आईवृक्ष । इत्युत्करादिः॥ १ नड, प्लक्ष, बिल्व, वेणु, वेत्र, वेतस, इक्षु, काष्ठ, कपोत, तृण, क्रुच्चा, ह्रखत्वं च, तक्षन् नलोपश्च । इति नडादिः॥ २ एते नडादिषु द्रष्टव्याः ॥ ३ ढे लोपो कवा इत्यतो लोपानुवृत्तरिति भावः ॥ ४ कत्रि, उम्भि, पुष्कर, पुष्कल, मोदन, कुम्भी, कुण्डिन, माहिष्मती नगरी, वर्मती, उख्या, प्रास, कुड्याया यलोपश्च । इति कठ्यादिः ॥ ५ नदी, मही, वाराणसी, श्रावस्ती, कौशाम्बी, वनकौशाम्बी, काशफरी, काशपरी, खादिरी, पूर्वचरी, पाठा, माया, शाल्वा, दावो, सेतकी, बडवाया वृषे । इति नद्यादिः॥
SR No.002377
Book TitleVaiyakaran Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorVasudev Lakshman Shastri
PublisherPandurang Jawaji
Publication Year1938
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy