________________
तद्धितेषु चातुरर्थिकाः । वचने १॥२॥५१॥ लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । अङ्गाः । वङ्गाः। कलिङ्गाः ॥ तदशिष्यं संज्ञाप्रमाणत्वात् । श२५३ ॥ युक्तवृद्वचनं न कर्तव्यं संज्ञानां प्रमाणत्वात् ॥ लुब्योगाप्रख्यानात् । शरा५४ ॥ लुबपि न कर्तव्योऽवयवार्थस्येहाप्रतीतेः ॥ योगप्रमाणे च तदभावेऽदर्शनं स्यात् ।१।२।५५ ॥ यदि हि योगस्यावयवार्थस्येदं बोधकं स्यात्तदा तदभावे न दृश्येत ॥ प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् ।।२।५६॥ प्रत्ययार्थः प्रधानमित्येवंरूपं वचनमप्यशिष्यम् । कुतः । अर्थस्य लोकत एव सिद्धेः ॥ कालोपसर्जने च तुल्यम् ।१।२।५७ ॥ अतीताया रात्रेः पश्चार्धनागामिन्याः पूर्वार्धेन च सहितो दिवसोऽद्यतनः । विशेषणमुपसर्जनमित्यादि पूर्वाचार्यैः परिभाषितं तत्राप्यशिष्यत्वं समानम् । लोकप्रसिद्धेः ॥ विशेषणानां चाजातेः ।।२।५२ ॥ लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने स्तो जाति वर्जयित्वा । पञ्चाला रमणीयाः । गोदौ रमणीयौ । अजातेः किम् । पञ्चाला जनपदः । गोदौ ग्रामः । हरीतक्यादिषु व्यक्तिः * ॥ हरीतक्याः फलानि हरीतक्यः ॥ खलतिकादिषु वचनम् * ॥ खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि ॥ मनुष्यलुपि प्रतिषेधः ॥ मनुष्यलक्षणे लुबर्थे विशेषणानां न । लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः ॥ वरणादिभ्यश्च ।४।२।८२॥ अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणाः ॥ शर्कराया वा ।४।२।८३ ॥ अस्माच्चातुरर्थिकस्य वा लुप्स्यात् ॥ ठक्छौ च ।४।२।८४ ॥ शर्कराया एतौ स्तः । कुमुदादौ वराहादौ च पाठसामर्थ्यात्पक्षे ठच्कको । वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण् तस्य लुब्विकल्पः । षड् रूपाणि । शर्करा । शार्करम् । शार्करिकम् । शर्करीयम् । शर्करिकम् । शार्करकम् ॥ नद्यां मतुप ।४।२।८५॥ चातुरर्थिकः । इक्षुमती ॥ मध्वादिभ्यश्च ।४।२।८६॥ मतुप् स्याचातुरर्थिकः ॥ अनद्यर्थ आरम्भः । मधुमान् ॥ कुमुदनडवेतसेभ्यो तुप् ।४।२।८७॥ कुमुद्रान् । नवान् । वेतवान् । आद्ययोझय इति अन्त्ये मादुपधाया इति वक्ष्यमाणेन वः ॥ महिषाच्चेति वक्तव्यम् * ॥ महिष्मान्नाम देशः ॥ नडशादाड्ड्वलच ।४।२।८८ ॥ नडलः । शादो जम्बालघासयोः । शाद्वलः ॥ शिखाया वलच् ।४।२।८९॥ शिखावलम् ॥ उत्करा
. १ वरणा, शृङ्गी, शाल्मलि, मुण्डी, शयाण्डी, पर्णी, ताम्रपर्णी, गोद, आलिङ्ग्यायनि, जानपदी, जम्बु, पुष्कर, चम्पा, पम्पा, वल्गु, उज्जयिनी, गया, मथुरा, तक्षशिला, उरसा, गोमती, वलभी। इति वरणादिः॥
२ मधु, बिस, स्थाणु, वेणु, कर्कन्धु, शमी, करीर, हिम, किशर, शर्याण, मरुत्, वाली, शर, इष्टका, आसुति, शक्ति, आसन्दी, सकल, शलाका, आमिषी, इक्षु, रोमन् , रुष्टी, रुष्य, तक्षशिला, खड, बट, वेट । इति मध्वादिः॥
३.उत्कर, संफल, शफर, पिप्पल, पिप्पलीमूल, अश्मन् , सुवर्ण, खलाजिन, तिक, कितव, अणक, त्रैणव, पिचुक, अश्वत्थ, काश, क्षुद्र, भत्रा, शाल, जन्या, अजिर, चर्मन् , उत्क्रोश, क्षान्त, खदिर,