________________
१११
सिद्धान्तकौमुद्याम् सवार्तिकः । द्विगो गिति लुक् । द्वितन्त्रः ॥ इकन्पदोत्तरपदात् शतषष्टेः षिकन्पथः * ॥ पूर्वपदिकः । उत्तरपदिकः । शतपथिकः । शतपथिकी । षष्टिपथिकः । षष्टिपथिकी ॥ क्रमादिभ्यो वुन् ।४।२।६१ ॥ क्रमकः । क्रम, पद, शिक्षा, मीमांसा, इति क्रमादिः ॥ अनुब्राह्मणादिनिः।४।२।६२ ॥ तदधीते तद्वदेत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते अनुब्राह्मणी । मत्वर्थीयेनैव सिद्धे अण्बाधनार्थमिदम् ॥ वसन्तादिभ्यष्ठक ।४।२।६३ ॥ वासन्तिकः । अथर्वाणमधीते आथर्वणिकः । दाण्डिनायनेति सूत्रे निपातनाट्टिलोपो न ॥ प्रोक्ताल्लक ।४।६४॥ प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । पणनं पणः । घअर्थे कविधानमिति कः । सोऽस्यास्तीति पणी, तस्य गोत्रापत्यं पाणिनः ॥ गाथिविदथिकेशिगणिपणिनश्च ।६।४।१६५ ॥ एतेऽणि प्रकृत्याः स्युः । इति टिलोपो न । ततो यूनि इञ् । पाणिनिः ॥ ण्यक्षत्रियार्षभितो यूनि लुगणिोः ।।४। ५८ ॥ ण्यप्रत्ययान्तात्क्षत्रियगोत्रप्रत्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्ताद् जितश्च परयो. युवाभिधायिनोरणिञोर्लक् स्यात् । कौरव्यः पिता । कौरव्यः पुत्रः । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । वासिष्ठः पिता । वासिष्ठः पुत्रः । तैकायनिः पिता । तैकायनिः पुत्रः । एभ्यः किम् । शिवाद्यण् । कौहडः पिता । तत इञ् । कौहडिः पुत्रः । यूनि किम् । वामरथ्यस्य छात्राः वामरथाः । इति अणो लुक् तु न भवति । आर्षग्रहणेन प्रतिपदोक्तस्य ऋष्यण एव ग्रहणात् । पाणिनिना प्रोक्तं पाणिनीयम् । वृद्धाच्छः । इञश्चेत्यण् तु न । गोत्रे य इञ् तदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रणो लुक् । खरे स्त्रियां च विशेषः । पाणिनीयः । पाणिनीया ॥ सूत्राच कोपधात् ।।२।६५ ॥ सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । अप्रोक्तार्थ आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । तदधीते विदन्ति वा अष्टकाः ॥ छन्दोब्राह्मणानि च तद्विषयाणि ।४।६६ ॥ छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अध्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाणिनिः तस्य कठचरकादिति लुक् । ततोऽण् तस्य प्रोक्ताल्लुक् ॥[चातुरर्थिकाः।] तस्मिन्नस्तीति देशे तन्नानि ।४।२।६७ ॥ उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः ॥ तेन निवृत्तम् ।४।२।६८ ॥ कुशाम्बेन निवृत्ता कौशाम्बी नगरी ॥ तस्य निवासः । ६९॥ शिबीनां निवासो देशः शैबः ॥ अदूरभवश्च ।४।२।७० ॥ विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण प्रगुक्तास्त्रयोऽर्थाः संनिधाप्यन्ते । तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं सिध्यति ॥ ओरञ् ।४।२।७१ ॥ अणोऽपवादः । कक्षतु, काक्षतवम् । नद्यां तु
-
१ अयं गणो मूल एव पठितः ॥
२ वसन्त, ग्रीष्म, वर्षा, शरद्, हेमन्त, शिशिर, प्रथम, चरम, गुण, अनुगुण, अथर्वन्, आथर्वण, । इति वसन्तादिः॥ ३ एतदादि चातुरर्थिकप्रकरण ॥