________________
११२
सिद्धान्तकौमुद्याम् तेन नस्तद्धित इति टिलोपो न । युवतीनां समूहो यौवनम् । शत्रन्तादनुदात्तादेरञि यौवतम् ॥गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजादुञ्।४।२।३९॥ एभ्यः समूहे वुञ् स्यात् । लौकिकमिह गोत्रं तच्चापत्यमात्रम् ॥ युवोरनाको १॥ यु वु एतयोरनुनासिकयोः क्रमादन अक एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । औक्षकमित्यादि । आपत्यस्य चेति यलोपे प्राप्ते ॥ प्रकृत्याऽके राजन्यमनुष्ययुवानः * ॥ राजन्यकम् । मानुष्यकम् ॥ वृद्धाच्चेति वक्तव्यम् * ॥ वार्धकम् ॥ केदाराद्यश्च ।४।२।४०॥ चादुञ् । कैदार्यम् । कैदारकम् ॥ गणिकाया यजिति वक्तव्यम् * ॥ गाणिक्यम् ॥ ठञ् कवचिनश्च ।४।२।४१ ॥ चात्केदारादपि । कवचिनां समूहः कावचिकम् ॥ कैदारिकम् ॥ ब्राह्मणमाणववाडवाद्यत् ।४।२।४२ ॥ ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ॥ पृष्ठादुपसंख्यानम् * ॥ पृष्ठ्यम् ॥ ग्रामजनबन्धुभ्यस्तल् ।४।२।४३ ॥ ग्रामता । जनता । बन्धुता ॥ गजसहायाभ्यां चेति वक्तव्यम् * ॥ गजता । सहायता ॥ अह्नः खः क्रतौ * ॥ अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । क्रतौ किम् । आह्नः । इह खण्डिकादित्वादञ् । अह्रष्टखोरेवेति नियमाडिलोपो न ॥ पर्खा णस् वक्तव्यः * ॥ सिति च ।।४।१६॥ सिति परे पूर्व पदसंज्ञं स्यात् । अभत्वादोर्गुणो न । पर्शनां समूहः पार्श्वम् ॥ अनुदात्तादेरञ् ।४।२।४४ ॥ कापोतम् । मायूरम् ॥ खंण्डिकादिभ्यश्च।४।२।४५ ॥ अञ् स्यात् । खण्डिकानां समूहः खाण्डिकम् ॥ चरणेभ्यो धर्मवत् ।४।४६ ॥ काठकम् । छान्दोग्यम् ॥ अचित्तहस्तिधेनोष्ठक ।४।। ४७॥ साक्तुकम् । हास्तिकम् । धैनुकम् ॥ केशाश्वाभ्यां यञ्छावन्यतरस्याम् ।४।२।४८॥ पक्षे ठगणौ । कैश्यम् । कैशिकम् । अश्वीयम् । आश्वम् ॥ पोशादिभ्यो यः ।४।२।४९॥ पाश्या । तृण्या । धूम्या । वन्या । वात्या ॥ खलगोरथात् ।४।२।५०॥ खल्या । गव्या । रथ्या ॥ इनित्रकट्यचश्च ।४।२।५१ ॥ खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा । रथकट्या ॥ बलादिभ्य इनिर्वक्तव्यः * ॥ डाकिनी । कुटुम्बिनी । आकृतिगणोऽयम् ॥ विषयो देशे।४।२॥५२॥ षष्ठ्यन्तादणादयः स्युरत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिबीनां विषयो देशः शैवः । देशे किम् । देवदत्तस्य विषयोऽनुवाकः ॥ रोज
१ खण्डिका, वडवा, क्षुद्रक, मालवात्सेनासंज्ञायाम् , भिक्षुक, शुक, उलूक, श्वन, अहन् , युगवरत्रा, हलबन्ध्य । इति खण्डिकादिः॥
२ पाश, तृण, धूम, वात, अङ्गर, पाटल, पोत, गल, पिटक, पिटाक शकट, हल, नट, वन । इति पाशादिः॥
३ खल, डाक, कटुम्ब । इति खलादिराकृतिगणः । तेन शाकिनीयपि सिद्धम् ।
४ रजन्य, अमृत, बानव्य, शालङ्कायन, दैवयात, जालन्धरायण, तेल, आत्मकामेय, अम्बरीषपुत्र, वसति, बैल्ववन, शैलूष, उदुम्बर, तीव्र, बैल्वल, आर्जुनायन, संप्रिय, दाक्षि, ऊर्णनाभ । इति राजन्यादिः। आकृतिगणोऽयम् । तेन वरत्रा, अत्रीड, राजायन इत्यादि ॥