________________
११०
सिद्धान्तकौमुद्याम् वामदेवाडू ज्यड्ड्यौ ।४।२।९ ॥ वामदेवेन दृष्टं साम वामदेव्यम् ॥ सिद्धे यस्येतिलोपेन किमर्थं ययतौ डितौ । ग्रहणं माऽतदर्थे भूद्वामदेवस्य नखरे ॥ परिवृतो रथः।४।२।१०॥ वस्त्रैः परिवृतो वास्त्रो रथः । रथः किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते । तेनेह न । छात्रैः परिवृतो रथः ॥ पाण्डुकम्बलादिनिः ।४।२।११॥ पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दौ राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनिनैव सिद्धे वचनमणो निवृत्त्यर्थम् ॥ द्वैपवैयाघ्रादम् ।४।२।१२॥ द्वीपिनो विकारो द्वैपम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः ॥ कौमारापूर्ववचने ।४।२।१३ ॥ कौमारेत्यविभक्तिको निर्देशः । अपूर्वत्वे निपातनमिदम् । अपूर्वपति कुमारी पतिरुपपन्नः कौमारः पतिः । यद्वा । अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या ॥ तत्रोद्धृतममत्रेभ्यः ।४।२।१४ ॥ शराव उद्धृतः शाराव ओदनः । उद्धरतिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी । उद्धृत्य निहित इत्यर्थः ॥ स्थण्डिलाच्छयितरि व्रते ।।२।१५॥ तत्रेत्येव । समुदायेन चेद्रतं गम्यते । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ॥ संस्कृतं भक्षाः ।४।२।१६ ॥ सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रे संस्कृता भ्राष्ट्रा यवाः । अष्टसु कपालेषु संस्कृतोऽष्टाकपालः पुरोडशः ॥ शूलोखाद्यत् ।४।२।१७॥ अणोपवादः । शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः । तस्यां संस्कृतम् उख्यम् ॥ दनष्ठक् ।४।२।१८॥ दनि संस्कृतं दाधिकम् ॥ उदश्वितोऽन्यतरस्याम् ।४।२।१९ ॥ ठक् स्यात्पक्षेऽण् ॥ इसुसुक्तान्तात्कः ७३३५१ ॥ इस् उस् उक् त एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः औदश्वित्कः । औदश्चितः । इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेह । आशिषा चरति आशिषिकः । उषा चरति औषिकः ॥ दोष उपसंख्यानम् * ॥ दोा चरति दौप्कः ॥ क्षीराडूढञ् ।४२।२० ॥ अत्र संस्कृतमित्येव संबध्यते न तु भक्षा इति । तेन यवाग्वामपि भवति । क्षैरेयी ॥ सास्मिन्पौर्णमासीति ।४।२।२१ ॥ इतिशब्दात्संज्ञायामिति लभ्यते । पौषी पौर्णमासी अस्मिन् पौषो मासः ॥ आग्रहायण्यश्वत्थादृक् ।४।२।२२ ॥ अग्रे हायनमस्या इत्याग्रहायणी। प्रज्ञादेराकृतिगणत्वादण् । पूर्वपदात्संज्ञायामिति णत्वम् । आग्रहायणी पौर्णमासी अस्मिन् आग्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । आश्चत्थिकः ॥ विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः ।४।२।२३ ॥ एभ्यष्ठग्वा पक्षेऽण् । फाल्गुनिकः । फाल्गुनो मासः । श्रावणिकः । श्रावणः । कार्तिकिकः । कार्तिकः । चैत्रिकः । चैत्रः ॥ साऽस्य देवता ।४।२४ ॥ इन्द्रो देवताऽस्येति ऐन्द्रं हविः । पाशुपतम् । बार्हस्पत्यम् । त्यज्यमानद्रव्ये उद्देश्यविशेषो देवतामन्त्रस्तुत्या च । ऐन्द्रो मन्त्रः । आग्नेयो वै ब्राह्मणो देवतयेति तु शैषिकेऽर्थे सर्वत्रामीति ढक् ॥ कस्येत् ।४।२।२५ ॥ कशब्दस्य