________________
१०९
तद्धितेषु रक्तार्थकाः । यावणियौ विहितावनार्षों तदन्तयोर्गुरूपोत्तमयोः प्रातिपदिकयोः स्त्रियां प्यङादेशः स्यात् । निर्दिश्यमानस्यादेशा भवन्तीत्यणिोरेव । षडावितौ । यङश्वापू । कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या । वाराह्या । अनार्षयोः किम् । वासिष्ठी । वैश्वामित्री । गुरूपोत्तमयोः किम् । औपगवी । जातिलक्षणो ङीष् । गोत्रे किम् । अहिच्छत्रे जाता आहिच्छत्री ॥ गोत्रावयवात् ।४।११७९ ॥ गोत्रावयवा गोत्राभिमताः कुलाख्यास्ततो गोत्रे विहितयोरणिो स्त्रियां ष्यङादेशः स्यात् । अगुरूपोत्तमार्थ आरम्भः । पौणिक्या । भौणिक्या ॥ कौड्यादिभ्यश्च ।४।११८०॥ स्त्रियां प्यङ् प्रत्ययः स्यात् । अगुरूपोत्तमार्थोऽनणिर्थश्वारम्भः । क्रौड्या । व्याड्या ॥ सूत युवत्याम् * ॥ सूत्या ॥ भोज क्षत्रिये * ॥ भोज्या । दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठेविद्धिभ्योऽन्यतरस्याम् ।४।१८१॥ एभ्यश्चतुर्थ्यः ष्यका । अगोत्रार्थमिदं गोत्रेऽपि परत्वात्प्रवर्तते । पक्षे इतो मनुष्येति ङीष् । दैवयश्या । देवयज्ञी । इत्यादि ॥
॥ इत्यपत्याधिकारः ॥ तेन रक्तं रागात् ।४।२।१॥ रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिष्ठम् । रागात्किम् । देवदत्तेन रक्तं वस्त्रम् ॥ लाक्षारोचनाहक ।४।२।२ ॥ लाक्षिकः । रौंचनिकः ॥ शकलकर्दमाभ्यामुपसंख्यानम् * ॥ शाकलिकः । कार्दमिकः । आभ्यामणपीति वृत्तिकारः । शाकलः । कार्दमः ॥ नील्या अन् * ॥ नील्या रक्तं नीलम् ॥ पीतात्कन् * ॥ पीतकम् ॥ हरिद्रामहारजनाभ्यामञ् * ॥ हारिद्रम् । माहारजनम् ॥ नक्षत्रेण युक्तः कालः ।४।२।३ ॥ पुष्येण युक्तं पौषमहः । पौषी रात्रिः ॥ लुबविशेषे ।४।२।४ ॥ पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः । कथं तर्हि पुष्ययुक्ता पौर्णमासी पौषीति । विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्य इति निर्देशेन पौर्णमास्यामयं लुब् नेति ज्ञापितत्वात् । श्रवणशब्दात्तु अत एव लुप् युक्तवद्भावाभावश्च । अबाधकान्यपि निपातनानि । श्रावणी ॥ संज्ञायां श्रवणाश्वत्थाभ्याम् ।४।२।५ ॥ विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । संज्ञायां किम् । श्रावणी । आश्वत्थी ॥ द्वन्द्वाच्छः ।४।२।६॥ नक्षत्रद्वन्द्वाद्युक्ते काले छः स्यात् विशेषे सत्यसति च । तिष्यपुनर्वसवीयमहः । राधानुराधीया रात्रिः ॥ दृष्टं साम ।४।२।७॥ तेनेत्येव । वसिष्ठेन दृष्टं वासिष्ठं साम ॥ अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः * ॥ उशनसा दृष्टमौशनम् । औशनसम् ॥ केलेढक ।४।२।८ ॥ कलिना दृष्टं कालेयं साम ॥
१ क्रौडि, लाडि, व्याडि, आपिशलि, आपक्षिति, चौपयत, चैटयत, सैकयत, बैल्पयत, सौधातकि, सूत युवत्याम् , भोज क्षत्रिये, यौतकि, कौटि, भौरिकि, भौलिकि, शाल्मलि, शालास्थलि, कापिष्टलि, गौकक्ष्य । इति कोज्यादिः।
२ कलेढ गिति वार्तिकं सूत्रेषु कश्चित् प्रक्षिप्तम् ॥