________________
१०८
सिद्धान्तकौमुद्याम् ऐश्वाकौ ॥ क्षत्रियसमानशब्दाजनपदात्तस्य राजन्यपत्यवत् । तद्राजमाचक्षाणस्तद्राज इत्यन्वर्थसंज्ञासामर्थ्यात् । पञ्चालानां राजा पाञ्चालः ॥ पूरोरण वक्तव्यः * ॥ पौरवः ॥ पाण्डोयण् * ॥ पाण्ड्यः ॥ साल्वेयगान्धारिभ्यां च ।४।१।१६९ ॥ आभ्यामपत्येऽञ् । वृद्धेदिति ज्यङोऽपवादः । साल्वेयः । गान्धारः । तस्य राजन्यप्येवम् ॥ यमगधकलिनासूरमसादण् ।४।१।१७०॥ अञोऽपवादः । यच् । आङ्गः । वाङ्गः । सौमः । मागधः । कालिङ्गः । सौरमसः । तस्य राजन्यप्येवम् ॥ वृद्धत्कोसलाजादाय।४।१।१७१॥ उद्धात, आम्बष्ठ्यः । सौवीर्यः । इत, आवन्त्यः । कौसल्यः । अजादस्यापत्यं आजाद्यः ॥ कुरुनादिभ्यो ण्यः।४।१।१७२॥ कौरव्यः । नैषध्यः । स नैषधस्यार्थपतेरित्यादौ तु शैषिकोऽण् ॥ साल्वावयवप्रत्यग्रथकलकूटाश्मकादि ।४।१।१७३ ॥ साल्वो जनपदस्तदवयवा उदुम्बरादयस्तभ्यः प्रत्यग्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः । औदुम्बरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ॥ ते तद्राजाः।४।१॥ १७४ ॥ अञादय एतत्संज्ञाः स्युः ॥ तद्राजस्य बहुषु तेनैवास्त्रियाम् ।२।४।६२॥ बहुष्वर्थेषु तद्राजस्य लुक् स्यात्तदर्थकृते बहुत्वे नतु स्त्रियाम् । इक्ष्वाकवः । पञ्चाला इत्यादि । कथं तर्हि कौरव्याः पशवः । तस्यामेव रघोः पाण्ड्या इति च । कौरव्ये पाण्ड्ये च साधव इति समाधेयम् । रघूणामन्वयं वक्ष्ये, निरुध्यमाना यदुभिः कथंचिदिति तु रघुयदुशब्दयोस्तदपत्ये लक्षणया ॥ कम्बोजाल्लुक ।४।१।१७५ ॥ अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजौ ॥ कैम्बोजादिभ्यः इति वक्तव्यम् * ॥ चोलः । शकः । ब्यज्लक्षणस्याणो लुक् । केरलः । यवनः । अञो लुक् । कम्बोजाः समरे इति पाठः सुगमः । दीर्घादिपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । सिन्धुतक्षशिलादिभ्योऽणावित्यण् ॥ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ।४।१।१७६ ॥ तद्राजस्य लुक् स्यात् । अवन्ती । कुन्ती । कुरूः ॥ अतश्च ।४।१।१७७॥ तद्राजस्याकारस्य स्त्रियां लुक् स्यात् । शूरसेनी । मद्री । कथं माद्रीसुताविति । हख एव पाठ इति हरदत्तः । भर्गादित्वं वा कल्प्यम् ॥ न प्राच्यभर्गादियौधेयादिभ्यः ।४।१।१७८ ॥ एभ्यस्तद्राजस्य न लुक् । पाञ्चाली । वैदर्भी । आगी। वाङ्गी । मागधी । एते प्राच्याः । भार्गी । कारूशी । कैकेयी । केकयीत्यत्र तु जन्यजनकभावलक्षणपुंयोगे ङीष् । युधा। शुक्रा । आभ्यां यच इति ढक् । ततः स्वार्थे पर्धादियौधेयादिभ्योऽणञावित्यञ् । शार्ङ्गरवाद्यञ इति ङीन् । अतश्चेति लुकि तु ढगन्तत्वात् ङीप्युदात्तनिवृत्तिखरः स्यात् । यौधेयी । शौक्रेयी ॥ अणिमोरनार्षयोगुरूपोत्तमयोः ष्यडू गोत्रे ।४।११७८॥ ज्यादीनामन्त्यमुत्तमं तस्य समीपमुपोत्तम् । गोत्रे
१ कम्बोज, चोल, केरल, शक, यवन । इति कम्बोजादिः॥ २ भर्ग, करूश, केकय, कश्मीर, साल्व, सुस्थाल, उरस् कैरव्य । इति भर्गादिः। ३ यौधेय, शौकेय, शौभ्रेय, ज्यावाणेय, धौर्तेय, धार्तेय, त्रिगर्त, भरत, उशीनर । इति यौधेयादिः॥