________________
१०६
सिद्धान्तकौमुद्याम् चक्रिणोऽपत्यं चाक्रिणः ॥ न मपूर्वोऽपत्येऽवर्मणः ।६।४।१७० ॥ मपूर्वोऽन्प्रकृत्या न स्यादपत्येऽणि । भाद्रसामः । मपूर्वः किम् । सौत्वनः । अपत्ये किम् । चर्मणा परिवृतश्चामणो रथः। अवर्मणः किम् । चक्रवर्मणोऽपत्यं चाक्रवर्मणः ॥ वा हितनाम्न इति वाच्यम् ॥ * हितनाम्नोऽपत्यं हैतनामः । हैतनामनः ॥ ब्राह्मोऽजातौ ।६।४।१७१॥ योगविभागोऽत्र कर्तव्यः । ब्राह्म इति निपात्यते अनपत्येऽणि । ब्राह्मं हविः । ततः । अजातौ । अपत्ये जातावणि ब्रह्मणष्टिलोपो न स्यात् । ब्रह्मणोऽपत्यं ब्राह्मणः । अपत्ये किम् । ब्राह्मी औषधिः ॥ औक्षमनपत्ये ।६।४।१७३॥ अणि टिलोपो निपात्यते ।
औक्षं पदम् । अनपत्ये किम् । उक्ष्णोऽपत्यम् ॥ षपूर्वहन्धृतराज्ञामणि ।६।४।१३५ ॥ षपूर्वो योऽन् तस्य हनादेश्च भस्यातो लोपोऽणि । औक्ष्णः । ताक्ष्णः । श्रौणघ्नः । धृतराज्ञोऽपत्यं धार्तराज्ञः । षपूर्वेति किम् । सामनः । अणि किम् । ताक्षण्यः ॥ क्षत्राद्धः।४।१। १३८ ॥ क्षत्रियः । जातावित्येव । क्षात्रिरन्यः ॥ कुलात्खः ।४।१।१३९ ॥ कुलीनः । तदन्तादपि । उत्तरसूत्रेऽपूर्वपदादिति लिङ्गात् । आढ्यकुलीनः ॥ अपूर्वपदादन्यतरस्यां यड्ढको ।४।१।१४० ॥ कुलादित्येव । पक्षे खः । कुल्यः । कौलेयकः । कुलीनः । पदग्रहणं किम् । बहुकुल्यः । बाहुकुलेयकः । बहुकुलीनः ॥ महाकुलादखी ।४।१ ।१४१॥ अन्यतरस्यामित्यनुवर्तते । पक्षे खः । माहाकुलः । माहाकुलीनः । महाकुलीनः ॥ दुष्कुलाढक् ।४।१।१४२ ॥ पूर्ववत्पक्षे खः । दौष्कुलेयः । दुष्कुलीनः ॥ खसुश्छः ।४।१।१४३ ॥ वस्रीयः ॥ भ्रातुर्व्यच ।४।१।१४४ ॥ चाच्छः । अणोऽपबादः । भ्रातृव्यः । भ्रात्रीयः ॥ व्यन्सपत्ने ।४।१।१४५॥ भ्रातुर्व्यन् स्यादपत्ये प्रकृतिप्रत्ययसमुदायेन शत्रौ वाच्ये । भ्रातृव्यः शत्रुः । पाप्मना भ्रातृव्येणेति तूपचारात् ॥ रेवंत्यादिभ्यष्ठक् ।४।१९४६ ॥ ठस्येकः ७३३५०॥ अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ॥ गोत्रस्त्रियाः कुत्सने ण च ।४।१।१४७॥ गोत्रं या स्त्री तद्वाचकाच्छब्दात् णठको स्तः कुत्सायाम् । सामर्थ्याथूनि । गार्या अपत्यं गार्गो गार्गिको वा जाल्मः ॥ भस्याढे तद्धिते इति पुंवद्भावाद्गार्ग्यशब्दाण्णठकौ । यस्येति लोपः । आपत्यस्येति यलोपः ।। वृद्धाहक सौवीरेषु बहुलम् ।४।१।१४८ ॥ सुवीरदेशोद्भवाः सौवीराः । वृद्धात्सौवीरगोत्राथूनि बहुलं ठक् स्यात् कुत्सायाम् । भागवित्तेर्भागवित्तिकः । पक्षे फक् । भागवित्तायनः ॥ फेश्छ च ।४।१।१४९॥ फिजन्तात्सौवीरगोत्रादपत्ये छः ठक् च कुत्सने गम्ये । यमुन्दस्यापत्यं यामुन्दायनिः । तिकादित्वात् फिञ् । तस्यापत्यं यामुन्दायनीयः । यामुन्दायनिकः । कुत्सने किम् । यामुन्दायनिः । औत्सर्गिकस्याणो ण्यक्षत्रियेति लुक् । सौवीरेति
१ बहुच् प्रत्ययः इति तस्य पदत्वं नास्ति ॥
२ रेवती, अश्वपाली, मणिपाली, द्वारपाली, वृकवञ्चिन् , वृकबन्धु, वृकग्राह, दण्डग्राह, कर्णग्राह, ककुदाक्ष, चामरगाह, कुक्कुटाक्ष । इति रेवत्यादिः॥