________________
तद्धितेष्वपत्याधिकारः ।
॥
परे । इति इयादेशे प्राप्ते ॥ दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्य धैवत्यसारवैक्ष्वाक मैत्रेयहिरण्मयानि | ६|४|१७४ एतानि निपात्यन्ते । इति युलोपः । मैत्रेयः । मैत्रेयौ | यस्कांदिभ्यो गोत्रे | २|४|६३ ॥ एभ्योऽपत्यप्रत्ययस्य लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम् । मित्रयवः || अत्रिभृगुकुत्स - वसिष्ठ गोतमाङ्गिरोभ्यश्च | २|४|६५ || एभ्यो गोत्रप्रत्ययस्य लुक् स्यात् तत्कृते बहुत्वे न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः ॥ बह्वच इञः प्राच्यभरतेषु | २|४|६६ ॥ बह्वचः परो य इञ् प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक् स्यात् । पन्नागाराः । युधिष्ठिराः ॥ न गोपवनादिभ्यः | २|४|६७ ।। एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात् । बिदाद्यन्तर्गणोऽयम् । गौपवनाः । शैश्रवाः ॥ तिकैकितवादिभ्यो द्वन्द्वे | २|४|६८ || एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुक् स्यात् द्वन्द्वे । तैकायनयश्च कैतवायनयश्च तिकादिभ्यः फिञ् तस्य लुक् । तिककितवा: ॥ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे | २|४|६९ ॥ एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुग्वा स्यात् द्वन्द्वे चाद्वन्द्वे च । औपकायनाश्च लामकायनाश्च नडादिभ्यः फक् तस्य लुक् । उपकलमकाः । औपकायनलामकायनाः। भ्राष्ट्रककपिष्ठलाः । भाष्ट्रकिकापिष्ठलयः । लमकाः । लामकायनाः ॥ आगस्त्यकौण्डिन्ययोरगस्ति कुण्डिनच् | २|४|७० ।। एतयोरवयवस्य गोत्रप्रत्ययस्याsो यञश्च बहुषु लुक् स्यादवशिष्टस्य प्रकृतिभागस्य यथासंख्यं अगस्ति कुण्डिनच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः ॥ राजश्वशुराद्यत् |४|१|१३७ ॥ राज्ञो जातावेवेति वाच्यम् * ॥ ये चाभावकर्मणोः | ६|४|१६८ || यादौ तद्धिते परे अन् प्रकृत्या स्यान्न तु भावकर्मणोः । राजन्यः । श्वशुर्यः । जातिग्रहणाच्छूद्रादावुत्पन्नो राजनः ॥ अन् |६|४|१६७ ॥ अणि अन्प्रकृत्या स्यात् । इति टिलोपो न । अभावकर्मणोः किम् । राज्ञः कर्म भावो वा राज्यम् ॥ संयोगादिश्च | ६|४|१६६ || इन्प्रकृत्या स्यादणि परे
१०५
१ यस्क, लुह्य, दुह्य, अयःस्थूण, तृणकर्म, सदामत्त, कम्बल, हार, बहिर्योग, कर्णाटक, पर्णाटक, पिण्डी, जङ्घ, बकसक्थ, विश्रि, अजबस्ति, कुद्रि, मित्रयु रक्षोमुख, जङ्घारथ, उल्कास, कटुक, मंथक, पुष्करसद्, विषपुट, उपरिमेखल, क्रोष्टुमान, क्रोष्टुपाद, क्रोष्टुमाय, शीर्षमाय, खपर, पदक, वर्षुक, भलन्दन, भडिल, भण्डिल, भडित । इति यस्कादिः ॥
२ अयं गणः एकोत्तरशततमे १०१ पृष्ठे द्रष्टव्यः । स च हरितादिभ्यः प्रागेव ॥
३ तिककितवाः, वङ्खरभण्डीरथाः, उपकलमकाः, पफकनरकाः, बकनखगुदपरिणद्धाः, उब्जककुभाः, कलङ्कशान्तमुखाः, उत्तरशलङ्कटाः, कृष्णाजिन कृष्णसुन्दराः, अग्निवेशदशेरकाः । इति तिककितवादिः ॥
४ उपक, लमक, भ्राष्ट्रक, कपिष्ठल, कृष्णाजिन, कृष्णसुन्दर, चूडारक, आडारक, गडुक, उदक, सुधायुक, अबन्धक, पिङ्गलक, पिष्ट, सुपिष्ट, मयूरकर्ण, खरीजङ्घ, शलाथल, पनजल, पतञ्चल, कण्ठेरणि, कुषीतक, काशकृत्स्न, निदाघ, कलशीकण्ठ, दामकण्ठ, कृष्णपिङ्गल, कर्णक, पर्णक, जटिरक, बधिरक, जन्तुक, अनुलोम, अनुपद, प्रतिलोम, अपजग्ध, प्रतान, अनभिहित, कमक, वटारक, लेखाभ्र, कमन्दक, पिजूलक, वर्णक, मसूरकर्ण, मदाघ, कवन्तक, कमन्तक, कदामन्त, दामकण्ठ । इति उपकादिः ॥
१४