________________
१०४
सिद्धान्तकौमुद्याम् शब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वपदस्य तु वा ढे परे । प्रवाहणस्यापत्यं प्रावाहणेयः । प्रवाहणेयः ॥ तत्प्रत्ययस्य च ।३२९ ।। ढान्तस्य प्रवाहणस्योत्तरपदस्यामादेरचो वृद्धिः पूर्वपदस्य तु वा । प्रवाहणेयस्यापत्यं प्रावाहणेयिः । प्रवाहणेयिः । बाह्यतद्धितनिमित्ता वृद्धिाश्रयेण विकल्पेन बाधितुं न शक्यत इति सूत्रारम्भः ॥ विकर्णकुषीतकात्काश्यपे ।४।१।१२४ ॥ अपत्ये ढक् । वैकर्णेयः । कौषीतकेयः । अन्यो वैकणिः । कौषीतकिः ॥ ध्रुवो वुक् च।४।१।१२५॥ चाड्ढक् । भ्रौवेयः॥ कल्याण्यादीनामिनः।४ ।१।१२६ ॥ एषामिनादेशः स्यात् ढक् च । काल्याणिनेयः । बान्धकिनेयः ॥ कुलटाया वा ।४।१।१२७ ॥ इनड्मानं विकल्प्यते ढक् तु नित्यः पूर्वेणैव । कौलटिनेयः । कौलटेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थ कुलान्यटति तस्याः क्षुद्राभ्यो वेति पक्षे ढुक् । कौलटेरः ॥ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ।७३।१९ ॥ हृदाद्यन्ते पूर्वोत्तरपदयोरचामादेरचो वृद्धिर्जिति णिति किति च । सुहृदोऽपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः । तेषु भवः साक्तुसैन्धवः ॥ चटकाया ऐरक।४।१।१२८ ॥ चटकस्येति वाच्यम् * ॥ लिङ्गविशिष्टपरिभाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः ॥ स्त्रियामपत्ये लुग्वक्तव्यः * ॥ तयोरेव ख्यपत्यं चटका। अजादित्वाट्टाप् ॥ गोधाया दृक् ।४।१।१२९ ॥ गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः ॥ आरगुदीचाम् ।४।१।१३० ॥ गौधारः । रका सिद्धे आकारोच्चारणमन्यतो विधानार्थम् । जडस्यापत्यं जाडारः । पण्डस्यापत्यं पाण्डारः ॥ क्षुद्राभ्यो वा ।४ ।१।१३१ ॥ अङ्गहीनाः शीलहीनाश्च क्षुद्रास्ताभ्यो वा ढ़क् । पक्षे ढक् । काणेरः । काणेयः। दासेरः । दासेयः ॥ पितृष्वसुश्छण् ।४।११३२ ॥ अणोऽपवादः । पैतृष्वतीयः ॥ ढकि लोपः।४।१।१३३ ॥ पितृष्वसुरन्त्यलोपः स्याड्डकि । अत एव ज्ञापकात् ढक् । पैतृष्वसेयः ॥ मातृष्वसुश्च ।४।१।१३४ ॥ पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वस्रीयः ॥ मातृष्वसेयः ॥ चतुष्पान्यो ढम् ।४।१।१३५ ॥ ढे लोपोऽकद्राः।६।४। १४७॥ कद्रूभिन्नस्योवर्णान्तस्य भस्य लोपः स्यात् ढे परे । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाजातिविशेषे ॥ गृष्ट्यादिभ्यश्च ।४।१।१३६ ॥ एभ्यो ढञ् स्यात् । अण्डकोरपवादः । गाष्टेयः । मित्रयोरपत्यम् । ऋष्यणि प्राप्ते ढञ् ॥ केकयमित्रयुप्रलयानां यादेरियः ।।३।२ ॥ एषां यकारादेरिय् आदेशः स्यात् निति णिति किति च तद्धिते सुदन, सुदक्ष, सुवक्षस्, सुदाकन् , कटु, तुदब, अशाय, कुमारिका, कुठारिका, किशोरिका, अम्बिका, जिह्माशिन् , परिधि, वायुदत्त, शकल, शचाका, स्वध्वर, कुबेरिका, अशोका, गन्धपिङ्गला, खडोन्मत्ता, अनुदृष्टिन् , जरतिन् , बलीवर्दिन् , विन, वीज, जीव, श्वन् , अश्मन् , अश्व । इति शुभ्रादिराकृतिगणः॥
१ कल्याणी, सुभागा, बन्धकी, अनुदृष्टि, अनुसृति, जरती, बलि, वही, ज्येष्ठा, कनिष्ठा, मध्यमा, परस्त्री। इति कल्याण्यादिः॥
२ गृष्टि, हृष्टि, हलि, बलि, विधि, कुद्रि, अजबस्ति, मित्रयु । इति गृष्ट्यादिः ।