SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ तद्धितेष्वपत्याधिकारः । गाङ्गः । पक्षे तिकादित्वात् फिञ् । गाङ्गायनिः । शुभ्रादित्वाड्ढक् । गाङ्गेयः ॥ अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः।४।१।११३ ॥ अवृद्धाभ्यो नदीमानुषीनामभ्योऽण् स्यात् । ढकोऽपवादः । यामुनः । नार्मदः । चिन्तिताया अपत्यं चैन्तितः । अवृद्धेभ्यः किम् । वासवदत्तेयः । नदीत्यादि किम् । वैनतेयः । तन्नामिकाभ्यः किम् । शोभनाया अपत्यं शौभनेयः ॥ ऋष्यन्धकवृष्णिकुरुभ्यश्च ।४।१।११४ ॥ ऋषयो मन्त्रद्रष्टारः। वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः, श्वाफल्कः । वृष्णिभ्यः, वासुदेवः । आनिरुद्धः । शौरिरिति तु बाहादित्वादि । कुरुभ्यः, नाकुलः । साहदेवः । इञ एवायमपवादो मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाड्ढक् । आत्रेयः ॥ मातुरुत्संख्यासंभद्रपूर्वायाः ।४।१।११५॥ संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण्प्रत्ययश्च । द्वैमातुरः । पाण्मातुरः । सांमातुरः । भाद्रमातुरः । आदेशार्थ वचनं प्रत्ययस्तूत्सर्गेण सिद्धः । स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः । तेन धान्यमातुन । संख्येति किम् । सौमात्रः । शुभ्रादित्वाद्वैमात्रेयः ॥ कन्यायाः कनीन च ।४।१।११६ ॥ ढकोऽपवादोऽण् तत्सन्नियोगेन कनीनादेशश्च । कानीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः ॥ विकर्णशुङ्गच्छगलादत्सभरद्वाजात्रिषु ।४।१।११७ ॥ अपत्येऽण् । वैकर्णो वात्स्यः । वैकर्णिरन्यः । शौङ्गो भारद्वाजः । शौझिरन्यः । छागल आत्रेयः । छागलिरन्यः । केचित्तु शुङ्गेत्याबन्तं पठन्ति तेषां ढक् प्रत्युदाहरणम् । शौङ्गेयः ॥ पीलाया वा ।४।१।११८ ॥ तन्नामिकाणं बाधित्वा व्यच इति ढकि प्राप्ते पक्षेऽण् विधीयते । पीलाया अपत्यं पैलः । पैलेयः ॥ ढक् च मण्डूकात् ।४ ।१।११९॥ चादण् । पक्षे इञ् । माण्डू केयः । माण्डूकः । माण्डूकिः ॥ स्त्रीभ्यो ढक ।४।१।१२० ॥ स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः । बाहादित्वात्सौमित्रिः । शिवादित्वात्सापत्नः ॥ यचः ।४।१।१२१ ॥ व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवादः । दात्तेयः । पार्थ इत्यत्र तु तस्येदमित्यण् ॥ इतश्चानिनः ।४।१।१२२॥ इकारान्ताद् यचोऽपत्ये ढक् स्यात् न विजन्तात् । दौलेयः । नैधेयः ॥ शुभ्रादिभ्यश्च ।४ ।१।१२३ ॥ ढक् स्यात् । शुभ्रस्यापत्यं शौश्रेयः ॥ प्रवाहणस्य ढे ॥३।२८ ॥ प्रवाहण संधि, मुनि, ककुत्स्थ, कहोड, कोहड, कहूषय, कहय, रोधक, पिजिल, खजन, वितण्ड, तृण, कर्ण, क्षीर, हृद, जलह्रद, परिल, पिष्ट, हैहय, गोपिका, कपालिका, चटिलिका, बधिरिका, मञ्जिष्ठा, वृष्णिक, खञ्जार, खञ्जाल, रेख, लेख, रिख, आलेखन, विश्रवण, रवण, वर्तनाक्ष, ग्रीवाक्ष, पिटक, ऋशाक, नभाक, ऊर्णनाभ, जरकारु, पुरोहितिका, सुरोहिका, आर्यश्वेत, सुपिष्ट, मसुर, कर्ण, मयूरकर्ण, खदूरक, तक्षन् , ऋष्टिषेण, गङ्गा, विपाश, यस्क, लह्य, दुह्य, अयस्थूण, तूणकर्ण, पर्ण, भलन्दन, विरूपाक्ष, भूमि, इला, सपत्नी, द्यचो नद्याः, त्रिवेणी, त्रिवणं च । इति शिवादिः॥ १ शुभ्र, विष्ट, पुर, ब्रह्मकृत, शतद्वार, शलाथल, शल'काभ्र, लेखाभ्र, विकास, रोहिणी, रुक्मिणी, धर्मिणी, दिश् , शालूक, अजवस्ति, शकन्धि, विमातृ, विधवा, शुक, विश् , देवतर, शकुनि, शुक्र, उग्र, शबल, बन्धकी, मृकण्डु, विश्र, अतिभि, गोदन्त, कुशाम्ब, मकष्टु, शान्ता, हर, यवष्ट, रिक, सुनामन् , लक्षण श्यामयोर्वासिष्ठे, गोधा, कृकलास, अणीव, प्रवाहण, भरत, भरम, मृकण्ड, कपूर, इतर, अन्यतर, आलीढ,
SR No.002377
Book TitleVaiyakaran Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorVasudev Lakshman Shastri
PublisherPandurang Jawaji
Publication Year1938
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy