________________
सिद्धान्तकौमुद्याम् औपगवः । आदिवृद्धिरन्त्योपधावृद्धी बाधते ॥ तस्येदमित्यपत्येऽपि बाधनार्थ कृतं भवेत् । उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनम् ॥ १ ॥ योगविभागस्तु । भानोरपत्यं भानवः । कृतसन्धेः किम् । सौस्थितिः । अकृतव्यूहपरिभाषया सावुत्थितिर्मा भूत् । समर्थपरिभाषया नेह । वस्त्रमुपगोरपत्यं चैत्रस्य । प्रथमात्किम् । अपत्यवाचकात्षष्ठ्यर्थे मा भूत् । वाग्रहणाद्वाक्यमपि । दैवयज्ञीति सूत्रादन्यतरस्यांग्रहणानुवृत्तेः समासोऽपि । उपग्वपत्यम् । जातित्वान् ङीष् । औपगवी । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः पौंस्नः ॥ अपत्यं पौत्रप्रभृति गोत्रम् ।४।११६२॥ अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥ जीवति तु वंश्ये युवा ।४।१।१६३ ।। वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तावसंज्ञमेव न तु गोत्रसंज्ञम् ॥ भ्रातरि च ज्यायसि ।४।१।१६४॥ ज्येष्ठे भ्रातरि जीवति कनीयान् चतुर्थादियुवा स्यात् ॥ वान्यस्मिन्त्सपिण्डे स्थविरतरे जीवति । ४।१।१६५ ॥ भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञ वा स्यात् । एकं जीवतिग्रहणमपत्यस्य विशेषणम् । द्वितीयं सपिण्डस्य । तरग्निर्देश उभयोरुत्कर्षार्थः । स्थानेन वयसा चोत्कृष्टे पितृव्ये मातामहे भ्रातरि वा जीवति । गार्ग्यस्यापत्यं गाायणः गाग्र्यो वा । स्थविरेति किम् । स्थानवयोन्यूने गार्य एव । जीवतीति किम् । मृते मृतो वा गार्ग्य एव ॥ वृद्धस्य च पूजायामिति वाच्यम् * ॥ गोत्रस्यैव वृद्धसंज्ञा प्राचाम् । गोत्रस्य युवसंज्ञा पूजायां गम्यमानायाम् । तत्रभवान् गाायणः । पूजेति किम् । गार्ग्यः ॥ यूनश्च कुत्सायां गोत्रसंज्ञेति वाच्यम् * ॥ गार्यो जाल्मः । कुत्सेति किम् । गाायणः ॥ एको गोत्रे ।४।१।९३ ॥ गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोगोत्रापत्यं औपगवः । गार्ग्यः । नाडायनः ॥ गोत्रे खैकोनसंख्यानां प्रत्ययानां परम्परा । यद्वा खड्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥ १ ॥ अपत्यं पितुरेव स्यात्ततः प्राचामपीति च । मतभेदेन तद्धान्यै सूत्रमेतत्तथोत्तरम् ॥ २ ॥ पितुरेवापत्यमिति पक्षे हि उपगोस्तृतीये वाच्ये औपगवादिञ् स्यात् । चतुर्थे त्वजीवज्येष्ठे मृतवंश्ये औपगवेः फक् । इत्थं फगिजोः परम्परायां मूलाच्छततमे गोत्रे एकोनशतं प्रत्ययाः स्युः । पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽपि अण्णन्तादिञपि स्यात् । चतुर्थे फगिति फगियोः परम्परायां शततमे गोत्रेऽष्टनवतिरनिष्टप्रत्ययाः स्युः । अतो नियमार्थमिदं सूत्रम् । एवमुत्तरसूत्रेऽप्यूह्यम् ॥ गोत्राान्यस्त्रियाम् ।४।११९४ ॥ यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात् । स्त्रियां तु न युवसंज्ञा । गर्गस्य युवापत्यं गाायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः ॥ अत इञ् ।४।१।९५ ॥ अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठ्यन्तादिञ् स्यादपत्येऽर्थे । दाक्षिः ॥ बोहादिभ्यश्च ।४।११९६ ॥ बाहविः । औडुलोमिः । आकृति
. १ वृद्धस्य चेति यूनश्चेति च वार्तिके सूत्रपाठे कैश्चित्प्रक्षिप्ते ॥
२ बाहु, उपबाहु, उपवाकु, निवाकु, शिवाकु, वटाकु, उपबिन्दु, वृषली, वृकला, चूडा, बलाका, मूषिका,