________________
तद्धितेष्वपत्याधिकारः ।
९९
स्त्रीपुंसाभ्यां नत्र भवनात् |४|१|८७ ॥ धान्यानां भवने इत्यतः प्रार्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्ञ्जञौ स्तः । स्त्रैणः । पौंस्नः । वत्यर्थे न । स्त्रीपुंबच्चेति ज्ञापकात् । स्त्रीवत् । पुंवत् || द्विगोर्लुगनपत्ये | ४|१|८८ ॥ द्विगोर्निमित्तं यस्तद्धितोऽजादिरनपत्यार्थः प्राग्दीव्यतीयस्तस्य लुक् स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । द्विगोर्निमित्तस्येति किम् । पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । अजादिः किम् । पञ्चगर्गरूप्यम् । अनपत्ये किम् । द्वयोर्मित्रयोरपत्यं द्वैमित्रिः ॥ गोत्रेऽलुगचि |४|११८९ ॥ जदौ प्राग्दीव्यतीये विवक्षिते गोत्रप्रत्ययस्य लुक् स्यात् । गर्गाणां छात्राः । वृद्धाच्छः ॥ आपत्यस्य च तद्धितेनाति |६|४|१५१ || हलः परस्यापत्ययकारस्य लोपः स्यात्तद्धिते परे न त्वाकारे । गार्गीयाः । प्राग्दीव्यतीये किम् । गर्गेभ्यो हितं गर्गीयम् । अचि किम् । गर्गेभ्य आगतं गर्गरूप्यम् ॥ यूनि लुक् |४|११९० ॥ प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षिते युवप्रत्ययस्य लुक् स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः । वक्ष्यमाणः फिन् । ततो यून्यण् । ग्लैौचुकायनः । तस्य छात्रोऽपि ग्लौचुकायनः । अणो लुकि वृद्धत्वाभावाच्छो न || पैलादिभ्यश्च | २|४|५९ || एभ्यो युवप्रत्ययस्य लुक् । पीलाया वेत्यण् । तस्मादणो द्व्यच इति फिञ् । तस्य लुक् । पैलः पिता पुत्रश्च ॥ तद्राजाच्चाणः * ॥ यञ्मगधेत्यण्णन्तादाङ्गशब्दादणो व्यच इति फिञो लुक् । आङ्गः पिता पुत्रश्च ॥ इञः प्राचाम् |२|४|६० ॥ गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक् स्यात् तच्चेद्गोत्रं प्राचां भवति । पन्नागारस्यापत्यम् । अत इञ् । यञिञोश्चेति फक् । पान्नागारिः पिता पुत्रश्च । प्राचां किम् । दाक्षिः पिता । दाक्षायणः पुत्रः न तौलिभ्यः | २|४|६१ ॥ तौरवल्यादिभ्यः परस्य युवप्रत्ययस्य लुक् न स्यात् । पूर्वेण प्राप्तः तुल्वलः । तत इञि फक् । तौल्वलिः पिता । तौल्वलायनः पुत्रः ॥ फफिञोरन्यतरस्याम् |४|१| ९१ ॥ यूनिलुगिति नित्ये लुकि प्राप्ते विकल्पार्थं सूत्रम् । कात्यायनस्य छात्राः कातीयाः । कात्यायनीयाः । यस्कस्यापत्यं यास्कः । शिवाद्यण् । तस्यापत्यं युवा यास्कायनिः । अणो द्यच इति फिञ् । तस्य छात्राः यास्कीयाः । यास्कायनीयाः ॥ तस्यापत्यम् ||४|११९२ ॥ षष्ठ्यन्तात् कृतसन्धेः समर्थापत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः । उपगोरपत्यं
१ पैल, शालङ्कि, सात्यकि, सात्यंकामि, राह वि, रावणि, औदचि, औदवजि, औदमेधि, औदमस्जि, औदभृज्जि, दैवस्थानि, पैङ्गलौदायनि, राहक्षति, भौलिङ्गि, राणि, औदमन्थि, औद्गाहमानि, औजिहानि, औदशुद्धि, तद्राजाच्चाणः । आकृतिगणोऽयम् । इति पैलादिः ॥
२ तौल्वलि, धारणि, पारणि, रावणि, दैलीपि, दैवमित्रि, दैवति, बार्कलि, नैककि, दैवयज्ञि, दैवमति, चाफढकि, बैल्वकि, बैम्बकि, आनुरोहिति, पौष्करसादि, आनुराहति, आनुति, प्रादोहनि, नैमिश्रि, प्राडाहति, बान्धकि, वैशीति, आसिनासि, आहिंसि, आसुरि, नैमिषि, आसिबन्धकि, पौष्पि, कारेणुपालि, वैकर्णि, वैनकि, वैहति । इति तौल्वल्यादिः ॥