________________
३. व्याप्तिचिन्ता
८१
प्रकारान्तरेणकदैककार्यकरणेऽनेककरणे वान्यदाऽवस्तुत्वं स्यात् कार्याभावात् । पुनः पुनः कार्यकरणे च क्रम एव न प्रकारान्तरसम्भवः। अथ प्रकारान्तरेण नैकदा कार्य करोति पुनः पुनश्च न करोति तदास्यावस्तुत्वं स्यात् । सर्वदाऽकर्तृत्वात् ।
तस्मात् क्रमाक्रमाभ्यां घटादिरर्थक्रियाकारी प्रत्यक्षसिद्धः स एवायमिति ज्ञानाद- . क्षणिकश्च प्रतीयत एव। तस्य च यदैककार्यकरणंप्रति सामर्थ्यन्तत्तदैव न पूर्वं न पश्चात्तत्कार्याभावात् । सामर्थ्य च तदव्यतिरिक्तमेवमुत्तरोत्तरकार्योत्पतावपि द्रष्टव्यं । सामर्थ्यभेदेन च पदार्थभेदात् क्षणिक एव क्रमाक्रमयोनियमः । तेन यत्र सत्त्वन्तत्र क्रमाक्रमप्रतीतावपि क्षणिकत्वप्रतीतिरेव। य एव क्षणिके क्रमाक्रमयोनियमोयमेव नित्येष तयोरयोगः। तस्माद् यदेतद् घटादौ नित्यत्वं प्रतीतं तत सत्त्वविरुद्धमिति नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधः सिद्ध उच्यते। यथा च दृष्टे घटादौ सत्त्वं क्षणिकत्वव्याप्तं तथाऽदष्टेष्वप्यविशेषादिति व्याप्तिं सर्वोपसंहारेण प्रतिपद्य यथा यथा तेषु सत्त्वं निश्चीयते तथा तथा क्षणिकत्वानुमानं । सत्त्वानिश्चये तु शशविषाणवत्तेष्वसत्ताशंकया क्षणिकत्वाप्रतीतिः स्यात् (1) न च तत्रापि बाधकप्रमाणेनैव क्षणि कत्वस्य सिद्धत्वादनुमानस्य वैययं । गृहीतव्याप्तिकस्य पुंसः सत्त्वनिश्चयमात्रेणैव साध्यार्थावगतेर्बाधकोत्थानवैयर्थ्यात्। विस्तरतस्त्वयं व्याप्तिग्रहणप्रकारो नैरात्म्यसिद्धावभिहित इति तत्रैवावधार्यः।
ये तु सत्त्वस्य विपक्षाद् अभावेन सर्वत्र क्षणिकत्वव्याप्तिं प्रतिपद्य सत्त्वात्तत्रैव क्षणिकत्वमनुमापयन्ति। तेषामनुमानोत्थानमेव न स्यात्। व्याप्तिग्रहणादेव प्रमाणात् सर्वत्र क्षणिकत्वस्य सिद्धत्वात् । न च धर्मी सिद्धः सर्वस्य त्रैलोक्यस्य प्रत्यक्षत्वाद्धेतुश्चासिद्धः । पक्षीकृते च सर्वस्मिन् धर्मिणि बाधकवशाद् यदि विपक्षाभावः सिद्धस्तदा साध्यस्यापि सिद्धत्वान्नानुमानस्योत्थानं स्यात् ।
नान्यश्च धर्मी सिद्ध इति कथं बाधकस्य प्रवृत्तिरिति यत्किञ्चिदेतत् (1) तस्मात् स्थितमेतदस्य सत्त्वविशिष्टस्य कृतकत्वस्य क्षणिकत्वाख्यो धर्मः स्वभावस्तन्मात्रानुबन्धी अस्य वा क्षणिकत्वस्य स्वभावस्तन्मात्रानुबन्धी कृतकमात्रानुबन्धी . प्रमाणदृष्ट इति। __यद्वा सत्त्वविशेषणरहितस्यापि कृतकत्वादेः क्षणिकत्वे साध्ये नानैकान्तिकत्वं। यतस्तस्य प्रथमे क्षणे य एव स्वभावः स एव चेत् द्वितीये क्षणे तदाऽभूत्वा भवनमेव स्यात् प्रथम'क्षणवत्। ततश्च क्षणिकत्वं । अथ प्रथमक्षणे कृतकस्य'41b . जन्मैव न स्थितिद्वितीये तु क्षणे स्थितिरेव न जन्म । एवमपि क्षणिकत्वं स्यात। जन्मजन्मिनोरभेदात। स्थितिस्थितिमतोश्च । न च द्वितीये क्षणे जन्म विना स्थिति