________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।३०)
वस्तुप्रतिपत्यनन्तरमपरस्य ग्राहकः स क्रमग्राही स्यात् तथा वा क्षणिकत्वमस्य स्यात्। यस्य च बौद्ध स्य काल एव नास्ति तस्य कथं क्रमग्रहः। भिन्नकालवस्त्वग्रहात्। कालाभावे चानेकवस्तुरूप एव क्रमः। तथा च नित्यस्यापि क्रमकर्तृत्वं न विरुध्यते। यथा च नित्यस्य क्रमकर्तृत्वादनेकरूपत्वन्तथा क्षणस्यापि स्यात्। अथ क्षणवद् द्वितीये क्षणे नित्यस्याप्यभावः स्यात् । कार्याभावात् ।
तदयुक्तं कालाभावात् । भवतु वा क्रमग्रहस्तथापि कथं क्रमाक्रमाभ्यां सत्त्वस्य व्याप्तिः। क्रमयोगपद्यव्यतिरेकेणान्येन प्रकारेणार्थक्रियासम्भवात्। न च प्रकारान्तरस्य दृश्यानुपलम्भादभावनिश्चयः। एवं हि विशिष्टदेशादावेवाभावनिश्चयः स्यान्न सर्वदा। नाप्यदृश्यानुपलम्भाद् अभावनिश्चयः सन्देहात्। तस्मान्नित्येषु क्रमाक्रमायोगेपि सत्त्वानिवृत्तेः कथं सत्त्वस्य क्षणिकस्वभावत्वमिति शं क र प्रभृतयः ।
भवतु वा प्रकारान्तराभावात् क्रमयोगपद्याभ्यां सत्त्वस्य व्याप्तिस्तथापि नित्येषु न प्रत्यक्षादिना क्रमाक्रमायोगः सिद्धो नित्त्यानामतीन्द्रियत्वात् (1) तदसिद्धौ च न तेषु सत्त्वनिवृत्तिसिद्धिस्तदसिद्धौ च न सत्वस्य क्षणिकस्वभावत्वसिद्धिः ।
किञ्च (1) सत्त्वात् क्रमयोगपद्यानुमानं स्यात् तेनैव व्याप्तत्वान्न तु क्षणिकत्वानुमानन्तत्र क्रमकर्तृत्वासम्भवादिति।।
अत्रोच्यते। क्रमयोगपद्ये प्रत्यक्षसिद्धे एव। सहभावो हि भावानां यौगपद्यं क्रमस्तु पूर्वापरभावः स च क्रमिणामभिन्नस्तत्प्रतिभासश्चैकप्रतिभासः। स त्वेकप्रतिभासानन्तरमपरस्य प्रतिभासः। क्रमप्रतिभासो न त्वेकस्यैवातिप्रसङ्गात् । __सत्यं 5 (1) तत्रापि यदैकस्य प्रतिभासो न तदापरस्य तद्भावे हि यौगपद्यप्रतिभासः स्यात् । तस्मात् क्रमिणोः पूर्वोत्तराभ्यां ज्ञानाभ्यां ग्रहे क्रमो गृहीत एव ततोऽभेदात् । केवलं पूर्वानुभूतवस्त्वाहितसंस्कारप्रबोधेनेदमस्मादनन्तरमित्यानुपूर्वीविकल्पोत्पत्त्या क्रमग्रहो व्यवस्थाप्यते। क्रमिणां ग्रहेपि कथंचिदानुपूर्वी विकल्पानुत्पत्तौ क्रमाग्रहव्यवस्थापनादप्त एव ऋमिणामेकग्रहेपि न क्रमग्रह उच्यते।
. किं च कालाभ्युपगमवादिनोपि कथं क्रमग्रहः । एककालत्वात् सर्वकार्याणां । अथ भिन्नकालकारणोपाधिक्रमात् कार्यक्रमस्तदयुक्तं कालस्यैकत्वात। अत एव न नित्यस्य भावः ।
अथ पूर्वापररूपत्वात् क्रमवान् कालः ।
ननु तस्यापि क्रमो यद्यपरकालापेक्षस्तदानवस्था स्यात् । अथ तस्य स्वरूपेणा' 3ra क्रमस्तथा सहायरहितानाम्बहूनां कार्याणामपि क्रमः स्यात् । अस्माकन्तु पूर्वा
दिप्रत्ययविषयो महाभूतविशेषः कालो लोकप्रतीतोस्त्येव। तस्य च भेदात् क्रमादिप्रतीतियुज्यत एव। नापि प्रकारान्तरेण नित्यस्य कर्तत्वं सम्भवति। यतः