________________
३. व्याप्तिचिन्ता
७६
तद्भावहेतुभावप्रदर्शनं मन्यमानोऽर्थापत्त्या एकस्य वचनेन द्वितीयस्य सिद्धिमाह । तथा हि । यत् कृतकं तदनित्यमेवेत्युक्ते अनर्थान्तरे व्यक्तमयमस्य स्वभावः तन्मात्रानुबन्धी प्रमाणदृष्ट इति निश्चितंः तद्भावनियमात् ।
एतदप्याचार्यवचनेन संस्यन्दयन्नाह । यदाहेत्यादि (1) न्याय मुखे चायं ग्रन्थः। वाशब्दस्तत्रैव पूर्वविकल्पापेक्षी । अन्यतरेणेति साधर्म्यदृष्टान्तेन वैधर्म्य - दृष्टान्तेन वा । उभयप्रदर्शनाद् अन्वयव्यतिरेकप्रदर्शनात् । तत्रापि ग्रन्थे । दृष्टान्तेन स्वभावहेतौ कार्यंहेतौ च यथा क्रमन्तद्भावहेतुभावप्रदर्शनं क्रियत इति मन्यमान आचार्योर्थापत्त्या एकस्यान्वयस्य व्यतिरेकस्य वा वचनेन द्वितीयस्य यथाक्रमं व्यतिरेकस्यान्वयस्य वा सिद्धिमाह । एतदेवाह । तथा हीति । यत्किञ्चित् कृतकतदनित्यमेवेत्युक्ते व्यक्तमवश्यमयमनित्यत्वाख्यो धर्मोस्य कृतकस्य स्वभावस्तमात्रानुबन्धी कृतकमात्रानुबन्धी प्रमाणदृष्ट इति प्रमाणेन निश्चितः ।
नन् कार्येपि कारणमवश्यम्भवति । न च तत्तस्य स्वभाव इत्यत आह । अनर्थान्तर इति । कथन्तन्मात्रानुबन्धीत्याह । तद्भावनियमादिति । कृतकभावे - saश्यमनित्यताभावादित्यर्थः ।
ननु न कृतकमात्रानुबन्धी स्वभावो नित्यत्वस्य प्रत्यक्षनिश्चितः क्षणिकोयमित्यनिश्चयात्तत्कथमुच्यते प्रमाणदृष्ट इति । अथ कृतको विनाशं प्रत्यनपेक्षत्वातद्भावनियत इत्यनुमानदृष्टः ( 1 )
तदयुक्तं (1) यतो निर्हेतुकेपि विनाशे यदैव घटादेर्नाशः प्रतीयेत तदैवाहेतुकः स्थान्नान्यदा। तत्कथं॰ क्षणिकत्वं । अथैकक्षणस्थायित्वेन घटस्योत्पत्तेः पूर्वमपि नाश: ( 1 )
ननु यथैकक्षणस्थायित्वेनोत्पत्तिः स्वहेतुभ्यस्तथानेकक्षणस्थायित्वेनाप्युत्पत्तिः स्यात् । विचित्रशक्तयो हि सामग्र्यो दृश्यन्ते । न च यदि विनाशः क्वचित् कदाचिद् भवेत् (1) तत्कालद्रव्यापेक्षत्वाद् अस्यानपेक्षत्वहानिः । विनाशकहेत्वनपेक्षत्वाद् अन्यथा द्वितीयेपि क्षणे विनाशो न स्यात् तत्कालाद्यपेक्षत्वात् । अथ क्रमयौगपद्याभ्यां 30b सामर्थ्यलक्षणं सत्त्वं व्याप्तं नित्येषु च क्रमाक्रमनिवृत्तौ सत्त्वं निवर्त्तमानं क्षणिकेष्वेवावतिष्ठत इति सत्त्वयुक्तस्य कृतकस्य गमकत्वं ।
तदप्ययुक्तं । क्षणिकत्वे सति क्रमाप्रतिपत्तेर्येन हि ज्ञानक्षणेन पूर्वकम्वस्तु प्रतिपन्नं न तेनोत्तरं येनोत्तरं न तेन पूर्वकमिति कथं क्रमप्रतीतिः । यो हि पूर्व
1 Cig-Sog.