________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।३०) भवेत्। एवं आश्रयमन्तरेणाऽपि वैधHदृष्टान्ते व्यतिरेकः प्रसिध्यति ॥ येषां तद्भावहेतुभावौ प्रसिद्धौ, तेषां--
विदुषां वाच्यो हेतुरेव हि केवलः ॥२९॥ यदर्थ दृष्टान्तवचनं, सोर्थः सिद्ध एवेति तदा किं तद्वचनेन। तत्प्रदर्शनेऽपि किं वैधHदृष्टान्ताश्रयेणेति मन्यमान आचार्य आश्रयं प्रतिक्षिपति ॥
तेनैव ज्ञातसम्बन्धे द्वयोरन्यतरोक्तितः ।
अर्थापत्त्या द्वितीयेपि स्मृतिः समुपजायते ॥३०॥ यदाह "अर्थापत्त्याऽन्यतरेण वा उभयप्रदर्शनात्" इति। तत्राऽपि दृष्टान्तेन
न्यायमुख
कथ्यमाने आश्रयमन्तरेणापि वैधर्म्यदृष्टान्ते प्रसिध्यति व्यतिरेकः।
तेन यदुच्यते भट्टो द्यो त क रा भ्यां। "व्यतिरेकोपि लिंगस्य विपक्षान्नैव लभ्यते। ___ अभावे स न गम्येत कृतयत्नैरबोधनादि"ति (1) तन्निरस्तं।
___एवन्तावत् (1) तद्भावहेतुभावख्यापनाय तदवेदिनः दृष्टान्तो वक्तव्यः ।
येषां पुनः पूर्वं प्रसिद्धावेव तद्भावहेतुभावौ यथा स्वं प्रमाणेन पक्षधर्ममात्रत्वं 30a निश्चितन्तेषान्तद्भावहेतुभावप्रति विदुषां हेतुरेव। यदर्थ मित्यन्वयव्यतिरेक:
निश्चयार्थं। प्रतिपाद्यस्य स्वयमेव सोर्थः सिद्ध इति किन्तद्वचनेन। तदेति निश्चितान्वयव्यतिरेककाले।
यदपि मूढं प्रति दृष्टान्तप्रदर्शनं क्रियते तदा तत्प्रदर्शनेपि दृष्टान्तप्रदर्शनेपि वैधयं। विनाप्याश्रयेण यथोक्तविधिना सिध्यत्येव व्यतिरेकः। ततः किम्वैधयंदष्टान्ताश्रयणेति मन्यमान आचार्य आश्रयं प्रतिक्षिपति न्या य म खा दी। तथा हि तत्रैवं चोदितं “यदा ताकाशादिकं नित्यन्ता (वद)भ्यपैति प्रतिवादी (1) तदा कथन्नित्यात् कृतकत्वस्य व्यतिरेक” इति (1) तत्रा चा र्य आश्रयं प्रतिक्षिपन्नाह। तदा सन्देह एव नास्ति तदभावात्तत्रावृत्तेरिति।
एतदुक्तम्भवति। गृहीतप्रतिबन्धस्य तत्राकाशादौ व्यापकाभावाद् व्याप्याभावसिद्धेः। अनित्याभावश्च नित्यस्यास त्वात् सिद्ध इति यावत्। यस्माद दष्टान्ताभ्यां प्रतिबन्धः कथ्यते। तेन कारणेन ज्ञातसम्बन्धे हेतौ सति द्वयोः साध. Hवैधर्म्यदृष्टान्तयोरन्यतरोक्तितः। द्वितीयेपि ताभ्यामेवान्यतरस्मिन्ननुक्तेपि स्मृतिः समुपजायतेऽर्थापत्त्या ।