SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ३. व्याप्तिचिन्ता -७७ यः कृतकं स्वभावे जनयति सोऽनित्यरूपमेव सन्तं जनयतीति प्रमाणं दृष्टान्तेन ख्याप्यते। अन्यथा एकधर्मसद्भावात् तदन्येनाऽपि भवितव्यमिति नियमाभावात् व्यभिचाराशंका स्यात् । तेन च प्रमाणेन साध्यधर्मस्य तन्मात्रानुबन्धः ख्याप्यते स्वकारणादेव तथा जातो नश्वरः क्षणस्थितिधर्मा। अन्यतः तद्भावनिषेधात्। हेतुभावो वा सत्येव भावादिति प्रदर्श्यतेऽर्थान्तरस्य। तथा तद्भावहेतुभावे प्रसिद्ध सति अनित्यत्वाभावे कृतकत्वाभावः । 430b दहनाभावेऽपि धूमः। एवं स्वभावो हेतुश्च चेत् कथं स्वं स्वभावं हेतुं चान्तरेण मानेनानित्यत्वेन। यथैके विप्रतिपन्ना इति। तन्मात्रवत्वमेव दर्शयन्नाह। य इत्यादि। यो हेतुः कृतकं स्वभावे जनयति सोऽनित्यरूपमेव सन्तं जनयतीत्यर्थः । इति अनेन द्वारेणाविनाभावविषयं प्रमाणं दृष्टान्तेन ख्याप्यते। न तु दर्शनार्शनमात्रं। अन्यथेति यद्येवं प्रमाणं नोपदय॑ते । तदैकधर्मसभावात साधनधर्मसदभावात । तदन्येनापि साध्यधर्मेणापि भवितव्यमिति नियमाभावातु साधनस्य साध्यव्यभिचाराशंका स्यात् । यदि नाम दृष्टान्तेन प्रमाणमुपदर्शनीयन्तथापि किं सिद्धमित्याह। तेन च प्रमाणेन तन्मात्रानुबन्ध इति साधनमात्रानुबन्धः । कथं ख्याप्यत इत्याह। कृतकस्य यत्कारणन्तस्मादेव कृतकस्तथा जातो जातो यो नश्वरः क्षणस्थितिधर्मा । क्षणिकत्वेनैव नश्वरो न तु कालान्तरं स्थित्वेत्यर्थः। ____ कथं पुनः स्वहेतोरेव तथोत्पन्न इत्याह । अन्यत इति स्वहेतोरन्यस्माद्विनाशहेतोः। तस्य कृतकस्य तद्भावनिषेधाद् अनित्यतास्वभावनिषेधाद् वक्ष्यमाणकात्। हेतुभावो वा। तेन च प्रमाणेन ख्याप्यत इति सम्बन्धः। साध्यधर्मस्य साधनंप्रति हेतुभावो वा कारण त्वम्वा ख्याप्यते तस्मिन् सत्येव साधनस्य भावादित्यनेन प्रकारेण प्रमाणं दृष्टान्तेन प्रदर्श्यते। कस्य पुनः साध्यस्य हेतुभावः प्रद यंत इत्याह (1) अर्थान्तरस्य साधनाद् व्यतिरिक्तस्य। तथा दृष्टान्तोपदर्शितेन प्रमाणेन प्रसिद्ध तद्भावहेतुभावे । स्वभावस्य साध्यस्य तद्भावे । साधनस्वभावत्वे । कारणस्य हेतुभावे प्रसिद्ध सति। दहनाभावे धूमो न भवतीति प्रकृतेन सम्बन्धः । स इत्यनित्यस्वभावो वह्निश्च। तस्येति कृतकत्वस्य धूमस्य च यथाक्रमं स्वभावो हेतुर्वा (1) वा शब्दः समुच्चये। यत एवं कथमसौ कृतको धूमो वा स्वं स्वभावमनित्यं हेतुं चाग्निमन्तरेण भवेत् (।) नैव भवेदित्येवमनुद्दिष्टरूपे विषये व्यतिरेके 1 T Bam-po ghis-pa == द्वितीयमाह्निकं, bām-po = 300 Slokas.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy