________________
७६
प्रमाणवात्तिकस्ववृत्तिटीका (१।२८) तस्मात् स्वभावप्रतिबन्धादेव हेतुः साध्यं गमयति। स च तद्भावलक्षणस्तदुत्पत्तिलक्षणो वा अविनाभावाख्यः ताभ्यां प्रदर्श्यते ॥२७॥
तस्माद् वैधर्म्यदृष्टान्ते नेष्टोवश्यमिहाश्रयः।
तदभावे (च तन्नेति वचनादपि तद्गतेः ॥२८॥ यतः।
तद्भा(व) हेतुभावौ हि दृष्टान्ते तदवेदिनः।
ख्याप्येते; दृष्टान्ते हि साध्यधर्मस्य तद्भावः तन्मात्रानुबन्धेन तत्स्वभावत्वेन ख्याप्यते।
. यत एवन्तस्मात् स्वभावप्रतिबन्धादेव साध्याभिमते वस्तुनि प्रतिबद्धत्वादेव हेतुः स्वसाध्यङ्गमयति । न तु सम्बन्धात्। कार्यकारणयोरसहभावेन व्याप्यव्यापकयोश्चैकत्वेन द्विष्ठसम्बन्धाभावात्। स चेति स्वभावप्रतिबन्धः। तद्भावलक्षण इति साध्यस्वभावलक्षणस्तदुत्पत्तिलक्षणो वा। स एव स्वभावप्रतिबन्धोऽविनाभावाख्यः साधर्म्यवैध्रर्म्यदृष्टान्ताभ्यां प्रदर्श्यते ॥
एतदुक्तम्भवति। साध्यसाधनयोः प्रतिबन्धग्राहकमेव प्रमाणं व्याप्तिग्राहकन्तेनैव साधनस्य साध्यायत्तताग्रहणात् साध्याभावेऽभावो गृहीत एव केवलन्तदविनाभावग्राहकं प्रमाणं विस्मृतत्वाद् दृष्टान्ताभ्यामुपदर्श्यते (।) यतश्च प्रमाणख्यापनादेवाविनाभावस्मृत्या साध्याभावे साधनाभावो निश्चितो भवति (।)
तस्माद् वैधर्म्यदृष्टान्ते। तद्विषयेऽवश्यं नियमेन इह हेतौ कार्यस्वभावलक्षण आश्रयो वस्तुभूतो धर्मी नेष्टः स्वभावानुपलम्भे त्विष्ट एव।
तत्र हि विपर्ययेणोपलम्भः ख्यापनीयः । किङ्कारणम् (1) आश्रयो नेष्ट इत्याह। तदभावे चेत्यादि। तदभावे व्यापककारणयोरभावे तद्व्याप्यकार्याख्यं लिङ्गं नेति
न भवतीत्येवं वैधर्म्यवचनाद् अप्याश्रयरहितात्तद्गतेर्व्यतिरेकगतेः (॥२८॥) 29b किङ्कारणं। यत इत्यादि । स्वभावहेतौ साध्यस्य तद्भावः साधनव्या
पकत्वं । कार्यहेतौ साध्यस्य हेतुभावः कारणत्वं ख्याप्यते। तदवेदिन इति तद्भावहेतुभावावेदिनः पुंसः।
तयाचष्टे। दृष्टान्ते हीत्यादि। साध्यधर्मस्य तद्भावः साधनस्वभावत्वं ख्याप्यते तन्मात्रानुबन्धेन। साधनमात्रानुबन्धेन। कृतक (त्व) निष्पत्तावेव निष्पन्नस्यानित्यत्वस्य कृतकमात्रानुबन्धेन या तत्स्वभावता साधनस्वभावता तया। एवंभूतया तद्भावः ख्याप्यते । न तु निमित्तान्तरात् पश्चाद् उत्पद्य