________________
३. व्याप्तिचिन्ता
७५
यथा वृक्षः शिशपां, शाखादिमद्विशेषस्यैव तथा तच्छब्दप्रसिद्धः स हि तस्य स्वभावः । स्वञ्च स्वभावं परित्यज्य कथं भावो भवेत् । स्वभावस्यैव रूपत्वादिति तस्य प्रतिबन्धादेव अव्यभिचारः ॥
कारणं वा कार्यमव्यभिचारतः ॥२५॥
कारणं निवर्त्तमानं कार्यं निवर्त्तयति ॥
अन्यथा तद्धितस्य कार्यमेव न स्यात् । सिद्धस्तु कार्यकारणभावः स्वभावं नियमयति । उभयथा स्वभावप्रतिबन्धादेव' निवृत्तिः ॥
अन्यथैकनिवृत्त्यान्यविनिवृत्तिः कथं भवेत् ।
(नाश्ववानिति मन न भाव्यं गोमतापि किम् ) ||२६|| सन्निधानात् तथैकस्य कथमन्यस्य सन्निधिः । गोमानित्येव मन भाव्यमश्ववतापि किम् ||२७||
वृक्षस्तस्य शिशपाख्यस्य स्वभावः । स्वञ्च स्वभावं वृक्षं परित्यज्य कथं शिशपाख्यो भावो भवेत् । किङ्कारणं (1) स्वभावस्यैव वृक्षस्वात्मन एव भावत्वाच्छिंशपारूपवात् । इति हेतोस्तस्यात्मभूतस्य साधनस्य शिशपादेः स्वभावप्रतिबन्धादेव स्वभावे साध्याभिमते वृक्षादौ यथोक्तेन प्रकारेण प्रति- बन्धादेवाव्यभिचारः । कारणं वा निवर्त्तमानमित्यध्याहारः । कार्यन्निवर्त्तयेदिति प्रकृतं । कस्माद् (1) अव्यभिचारतः कार्यस्य कारणाव्यभिचारादित्यर्थः । कारणमित्यादिना व्याचष्टे ।
अन्यथेति । यदि कारणे निवर्त्तमाने कार्यं न निवर्त्तेत । तदा तत्कार्याभिमतं तस्य कारणस्य कार्यमेव न स्यात् । तस्मात् कारणं निवर्त्तमानं कार्यमवश्यं निवर्त्तयति । यद्यपि वासगृहादावग्निकारण निवृत्तावपि न धूमस्य निवृत्तिस्तथापि दृष्टकारणव्यतिरेकेण नान्यस्मादस्योत्पत्तिरभिप्रेतेत्यर्थः । अत एवाह । सिद्धस्त्वित्यादि । सिद्धस्तु कार्यकारणभावः कार्यस्य स्वभावं कारणे नियमयति (1) सति तस्मिन्भवत्यसति न भवतीत्येवन्तदव्यभिचारिणं करोति । उभयथेति तादात्म्येन तदुत्पत्त्या वा यः स्वभावप्रतिबन्धस्तस्मादेव । साध्यनिवृत्त्या हेतोर्निवृत्तिः ।
अन्यथेति यदि प्रतिबन्धो नेष्यते । एकस्याप्रतिबन्धकस्य साध्यस्य निवृत्त्या - न्यनिवृत्तिः । अप्रतिबद्धस्य साधनधर्मस्य निवृतिः कथम्भवेत् ( 1 ) नैव । यस्मानाश्ववानित्यश्वरहित इति कृत्वा मर्त्येन मनुष्येण न भाव्यं गोमतापि किं । सन्निधानात्तथैकस्येति स्वभावेनासम्बद्धस्य हेतोः सन्निधानात् कथमन्यस्य साध्यस्य सन्निधिर्नैव सन्निधानं । यस्माद् ( 1 )
"गोमानित्येव मत्र्त्स्न्येन भाव्यमश्ववतापि किं । "
430a