________________
७४
प्रमाणवात्तिकस्ववृत्तिटीका (१।२४) माह । अन्यो हि दध्यादिकं क्षीरादिषु । अपरः निरर्थकेषु (? अपरार्थेषु ) संघातत्वस्थादर्शनाद् व्यतिरेकमाह । को पत्र नियमः संघातैरवश्थं परार्थैर्भवितव्यमिति । उपलम्भो दध्यादीनां क्षीरादिषु अनुमानमेव । अशक्तादनुत्पत्तेः ।
. अथ किं स एव भावः शक्तिरुतान्यदेव किञ्चिद्। तदेवेति चेत् तथैवोपलभ्येत, विशेषाभावात् (1) अन्यच्चेत्, कथमन्याभावे तद् अस्ति । उपचारमात्रं स्यात् ॥ अयं परस्परव्याघात एषाम् ॥
तस्मात् तन्मात्रसम्बन्धः स्वभावो भावमेव वा। निवर्तयेत;
अपर इति सां ख्यः पूनः स एव। परार्थाश्चक्षरादयः सङघातत्वादित्यभिधायापरार्थेषु शशविषाणादिषु सङघातत्वस्यादर्शनाद् व्यतिरेकमाह। एवन्तावदस्य परस्परव्याघातः । न चादर्शनमात्रेणास्य हेतोाप्ति: सिध्यति। को ह्यत्र नियमः सङघातैरवश्यं परार्थैर्भवितव्यं यतः संघातत्वाच्चक्षुरादीनां पारार्थ्यसिद्ध्यात्मार्थत्वं सां ख्य-स्य सिध्येत् । यदुक्तं दध्यादिकं क्षीरादिष्वप्यनुपलभ्यमानमपीति (1) तन्न। यस्मादस्त्येवोपलम्भो दध्यादीनां क्षीरादिषु (।) कोसावित्याहानुमानमिति। अनुमानं चाहाशक्तादनुत्पत्तेरिति। यदि हि क्षीरादौ दध्यादिशक्तिन स्यात्ततो शक्तात् क्षीरादेर्दध्या दि नोत्पद्येत । प्रयोगस्तु यद्यज्जनने न शक्तं न तस्य तत उत्पत्तिर्यथा शालिवीजाद् यवाङकुरस्य (1) उत्पद्यते च दध्यादिः क्षीरादिभ्यस्तस्मादस्ति दध्यादिशक्तिः क्षीरादाविति कार्यहेतुप्रतिरूपको वैधर्म्यप्रयोगः। शक्तेरेव च दध्यादि: कार्यकारणयोरभेदादिति मन्यते। ___ अथेत्यादि सिद्धान्तवादी। योसौ दध्यादिको भावः पश्चादुपलभ्यते किं स एव भावः शक्तिरुतान्यदेव किञ्चिद् दध्यादेरर्थान्तरं। तथैवेति निष्पन्नरूपदध्यादिवत क्षीरावस्थायामुपलभ्येत विशेषाभावात्। अन्यच्चेदिति। दध्यादिभ्योर्थान्तरं चेच्छक्तिः । तदा कथमन्यभावेन्यस्य शक्त्याख्यस्य भावे । तद्दध्यादिकमस्ति । नैवेत्यभिप्रायः। दध्यादिजननसामर्थ्यात् क्षीरादौ दध्यादीत्युपचारमात्रं स्यात् । अनुपलम्भमप्रमाणीकृत्य पुनस्तस्यैव प्रमाणीकरणमयम्परस्परव्याघात एषामात्मादिवादिनामित्युपसंहारः ॥
यतश्चादर्शनमात्रान्नास्ति व्यतिरेकस्तस्मात्तन्मात्रसम्बन्धः। हेतुसत्तामात्रसम्बद्धस्वभावः साध्यत्वेनाभिमतः स्वयन्निवर्तमानो भावमेवं स्वभावभूतमेव
हेतुत्वेनोपनीतं निवर्तयेत् । वा शब्दो वक्ष्यमाणविकल्पापेक्षी। यथा वृक्षो निवर्तमानः 29a शिशपान्नि'वर्तयति। कस्माच्छाखादिमद्विशेषस्यैव तथा शिंशपेति प्रसिद्धः स