________________
३. व्याप्तिचिन्ता
७३
त्वात्, (तत्) कार्यस्यासिद्धत्वात् । इन्द्रियादीनां विज्ञानमेव कार्य, तस्य कादाचित्कत्वात्' । सापेक्ष्यसिद्धया प्रसिद्धिरुच्यते ।
किमप्यस्य कारणमस्तीति । न त्वेवम्भूतमिति एवं सुखादिकार्यं प्रसाधितं कञ्चिदर्थं न पुष्णाति । येन केनचित् कारणवत्त्वाभ्युपगमात् । तथा च सत्यनुपलम्भ एवात्मनः स्यात् । तस्मात् तमनुपलम्भेन प्रत्याचक्षाणः किमिति प्रतिव्यूढः कथं व्यतिरेकं साधयेत् ।
कश्चिच्च मृदश्चैतन्यमनुपलभ्यमानमिच्छन् अदर्शनाद् वचनादेर्व्यावृत्ति
यथा नित्यपरोक्षाणामपीन्द्रियादीनामनुमानन्तथात्मनो भविष्यतीति च दाह । इन्द्रियाणामित्यादि । आदिशब्दात् स्मृतिबीजादीनां । विज्ञानमेव कार्यतस्य कादाचित्कत्वात् । तथा हि सत्स्वपि रूपालोकमनस्कारेषु निमीलितलोचनाद्यवस्थासुं विज्ञानस्याभावात् । पुनश्चोन्मीलितलोचनावस्थासु भावात् । विज्ञानकार्यं कारणान्तरसापेक्षं सिध्यति ततोस्य सापेक्ष्यसिद्ध्या इन्द्रियादीनाम्प्रसिद्धिरुच्यते ।
429b
एतदुक्तम्भवति । यत्सापेक्ष 'मिदङ्कादाचित्कं विज्ञानन्तत्किमप्यस्य विज्ञानस्य कारणमस्तीत्यनुमीयते तदेव चेन्द्रियमिति व्यवह्रियते । न त्वेवंभूतमिति न रूपविशेषेण मूर्त्तत्वादिना युक्तमिन्द्रियमनुमीयत इत्यर्थः । एवमिति यथा कादाचित्कविज्ञान कार्यान्यथानुपपत्त्येन्द्रियानुमानं । तथा सुखादिकार्यं यस्य सुखादिकार्यन्तत्किमप्यस्तीत्यनुमानेन तच्चात्मस्वरूपमिति प्रसाधितं कञ्चि- 28b दर्थमात्मवादिनो न पुष्णाति । येन केनचिदनिर्दिष्टविशेषेण कारणेन कारणवत्त्वाभ्युपगमात् सुखादीनां । न चैवंभूत आत्मा नित्यकर्तृभोक्तृत्वादिलक्षणत्वेनाभ्युपगमात्। यतश्च यथाभ्युपगतस्यात्मनो नास्ति कार्यलिङ्गं । तथा च सत्यनुपलम्भ एवात्मनः स्यात् । तस्मात् तमात्मानन्तेनानुपलम्भेन प्रत्यक्षानुमान - निवृत्तिलक्षणेन प्रत्याचक्षाणः किमिति प्रतिव्यूढः प्रतिक्षिप्त आत्मवादिना । अनुपलम्भमात्रान्नास्त्यसत्त्वमात्मन इति । कथमसाधनं सद् विपक्षाद्धेतोः प्राणादिमत्वादेर्व्यतिरेकं साधयेत् । भूतानामेव शक्तिश्चैतन्यमिष्यते चा व कैः ( 1 ) भूतस्वभावा च मृदित्येवं मृदः खल्वपि चैतन्यमनुपलभ्यमानमपीच्छन् लोक यति कः । यदाह ( 1 ) " तेभ्यो भूतेभ्यश्चैतन्यम्मदशक्तिवद्विज्ञानमिति । पुनस्तत एवाप्रमाणकादनुपलम्भात् । अदर्शनाद् वचनादेरसर्वज्ञत्वादिसाधनाय लिंगत्वेनोपनीतस्य विपक्षाद् व्यावृत्तिमाह । दध्यादिकं क्षीरादिष्वनुपलभ्यमानमपीच्छन् ।
१०