________________
प्रमाणवात्तिकस्ववृत्तिटीका ( ११२४)
निमित्ताभावात् 14 बाधकाभावात् भ्रान्त्यसिद्धेः । पुरुषेषु विशेषदर्शनस्य बाधकत्वाद् असमानम् । (न) वाक्यानां विशेषः परभावभूतस्य अतद्विशेषत्वात् । तदभिन्नस्वभावानां सर्वेषां पुरुषक्रिया न वा कस्यचित् ॥
ग. वैशेषिकमतनिरास:
७२
किञ्च ।
आत्ममृच्चेतनादोनां यो(s) भावस्याप्रसाधकः । स एवानुपलम्भ: किं हेत्वभावस्य साधकः ||२४|| अनुपलम्भमस्य प्रमाणयत आत्मवादो निरालम्बः स्यात्, आत्मनोऽप्रत्यक्ष
प्रमाणमुत्पद्येत भ्रान्तेर्बाधकन्तदा भ्रान्तेस्तन्निमित्तस्य च भवति निश्चयस्तच्च 28a नास्ति । तस्माल्लौकिकैः शब्दैः वैदिकानामविशेषे साध्ये नास्ति साधकं प्रमाणं ।
पुरुषेषु तर्हि किं बाधकं येन सर्वाकारगुणसाम्यसाधने दोष इत्याह । पुरुषष्वित्यादि । प्रज्ञादिविषयस्यातिशयस्याभ्यासपूर्वकस्य यद् दर्शनन्तदेव बाधकं । यद्यसम्भवद्वैराग्यं पुरुषस्यचित्तम्भवेत्। नाभ्यासाधेयविशेषम्भवेद् (।) भवति च ( 1 ) ततो विशेषदर्शनस्य बाधकत्वाद् असमानं । वेदवाक्यानुमाने यदुक्तं प्रत्यक्षाणां शब्दानामप्रत्यक्षस्वभावाभावादिति (1) स्यादयन्दोषो यदि विशेष: स्वभावभूतः स्यात् । किन्तु परभावभूत इत्याह । परभावभूतस्येति । परभावङ्गतः परभावभूतः । अन्यस्वभाव इत्यर्थः । अतद्विशेषत्वादित्यवाक्यविशेषत्वात् । यतो नास्ति विशेषो वाक्यानान्तत्तस्मादभिन्नस्वभावानां सर्वेषां पौरुषेया पौरुषेयाभिमतानां पुरुषक्रिया । पुरुषः करणं । न वा कस्यचित् । लौकिस्यापि न पुरुषक्रियेत्यर्थः ।। एवमाचार्थीयस्यादर्शनमात्रेण विपक्षाद्धेतोर्व्यतिरेकमिच्छतः ग्रन्थविरोधं प्रमाणविरोधं चोक्त्वा ती थि का नां परस्परव्याघातमाह । किंचेत्यादि । मृदश्चेतना । एतच्च लो का य त दर्शनं । आत्मा च मृच्चेतना चेति द्वन्द्वः । आदिशब्दात् क्षीरादिषु द्रव्यादि । तेषामभावस्य साधनायानुपलम्भः परेणोक्तोपि यस्तस्याभावस्याप्रसाधक इष्ट आत्मादिवादिभिरनुपलम्भमात्रस्याप्रमाणत्वादिति । स एवानुपलम्भ आत्मादिनिषेधे प्रमाणत्वेनानिष्टः किं हेत्वभावस्य हेतोविपक्षाद् व्यतिरेकस्य साधकः । हेत्वभावे चानुपलम्भं चास्य वैशेषिका दे: प्रमाणयतः आत्मवादो निरालम्बो निराश्रयः स्यात् । तत्रानुपलम्भस्याभावसाधनस्य सम्भवात् । तथा हि न प्रत्यक्षेणात्मन उपलम्भो नित्यपरोक्षत्वाभ्युपगमात् । अथ स्यादात्मनोनुमानमेवोपलम्भोस्त्येवेत्यत आह । तत्कार्येत्यादि । देवात्मनस्तत्कार्यस्वभावरूपस्य लिङ्गस्यानिश्चयान्नानुमानमुपलम्भः ।
अप्रत्यक्षत्वा