________________
३. व्याप्तिचिन्ता ।
भावासिद्धः। न हि रागादीनां व्यभिचारकार्यमस्ति। सम्भवेऽपि विशेषाणां द्रष्टुमशक्यत्वात्। ___ नैवं प्रतिक्षेपार्हाणि वाक्यानि यथा पुरुषाः। दृश्यविशेषत्वात्। अदृश्यत्वेऽपि अदष्टविशेषाणां विजातीयत्वोपगमविरोधात । तद्विशेषाणामन्यत्र कर्तुं शक्यत्वात्। प्रत्यक्षाणां (वाक्याना)मप्रत्यक्षस्वभावविरोधात्। भ्रान्ति
ग्येण सह हेतोर्बाध्यबाधकभावासिद्धेः ।
स्यान्मतं (1) न घचनादेर्वैराग्यादीनां साक्षाद् असम्भवोनुमीयते येन बाधको हेतुर्मूग्यते। किन्तु वीतरागाभिमतेषु रागादयोनुमीयन्ते (1) तेष्वनुमितेष्वर्थतो वीतरागादिप्रतिषिद्धमदृष्टेनापि वैराग्येन (?ण) रागित्वस्य विरोधादित्यत आह । रागेत्यादि। न हि रागादीनामव्यभिचारि कार्यमस्ति। आदिग्रहणाद् असर्वज्ञपरिग्रहः । तथा हि व्यवहारव्युत्पत्तिमारभ्य यथा यथार्थपरिज्ञानन्तथा तथा तद्विषयम्बक्तत्वम्भवतीति तेन यदि सर्वविषयं कस्यचिद् विज्ञानं स्यात तद्विषयमपि वक्तृत्वं केन वार्यते।
स्यादेतद् (1) यदि वैराग्यादिलक्षणन्तस्य विशेषोस्ति कथमस्माभिर्नोपलभ्यत इत्याह। सम्भवेपि तेषां वैराग्यादिलक्षणानां विशेषाणां परसन्ताने द्रष्टुमशक्यत्वात्। न च तथाभूतानामनुपलम्भात् प्रतिक्षेप इत्याह । तादृशो च विप्रकर्षिणामप्रतिक्षेपार्हत्वात् । ___ स्यादेतद् (1) यथा पुरुषा अप्रतिक्षेपार्हा स्तद्वद् वाक्यानीत्याह। नैवमित्यादि। किं कारणं। दृश्यविशेषत्वात्। तथा हि वैदिकानां वाक्यानाम्विशेषो दृश्य एवेष्यते। अथ नेष्यते। एवमदृश्यत्वेपि विशेषस्याभ्युपगम्यमाने । तेनानुपलब्धेन विशेषेणादृष्टविशेषाणां वैदिकवाक्यानां लौकिकवाक्येभ्यो विजातीयत्वोपगमविरोधात्। __ स्यान्मतं (1) दृश्या एव विशेषा वैदिकानां दुःश्रवणत्व दुर्भणत्वादयस्तैः पौरुषेयेभ्यो भिन्नानि भविष्यन्तीत्यत आह । तद्विशेषाणामित्यादि। अन्यत्रेति पौरुषेयेषु । न केवलमदृष्टविशेषाणां विजातीयत्वोपगमविरोधाददृश्यत्वं विशेषाणामयुक्तमितश्च प्रत्यक्षाणामप्रत्यक्षस्वभावविरोधात् । न ह्येकस्य स्वभावद्वयं विरुद्धं घटते। विशेषाः प्रत्यक्षा एव केवलं भ्रान्तिनिमित्तसद्भावात् । विषादिशक्तिवन्नावधार्यन्त इति चेदाह। भ्रान्तिनिमित्ताभावादिति । रूपसाधर्म्यदर्शनं हि भ्रान्तिनिमित्तं विषादिषु । नैवं वैदिकेषु। कथङ्गम्यत इति चेदाह । बाधकाभावात् भ्रान्त्यसिद्धेरिति । यदि वैदिकानां विशेषे भ्रान्त्यानपलक्ष्यमाणे पुनर्विशेषावलम्बि