________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।२३) 429a वद्विशेषहेतवः पुरुषा येन वचनादेः किंचिन्मात्रसाधर्म्यात्' सर्वाकारेण साम्यमनु
मीयेत। संस्कारविशेषेण विशेषप्रतीतेः। तद्वत अन्यस्यापि सम्भवात। असम्भवे त्वनुमातव्ये हेत्वभावात्। वैराग्यस्यादृष्टत्वात्। अदृष्टेन च बाध्यबाधक
पञ्चेन्द्रियाश्रितं सविकल्पकं च सर्वं च रागादिजननवासनागर्भ यथेदानीन्तथानागताव स्थायामपि यथा च मम तथा परेषामपि (1) तेन चित्तत्वेनेन्द्रियाश्रितत्वेन वचनादिहेतुत्वेन च सर्वस्य पुंसश्चित्तं सर्वदा रागादियुक्तन्नियतवस्तुग्राहित्वादसर्वविषयं किन्नानुमीयत इत्याशंक्याह। नैवमित्यादि। यथा वाक्यान्यसम्भवद्विशेषहेतूनि नैवं सम्भवद्विशेषहेतवः पुरुषाः येन विशेषहेत्वसम्भवेन। वचनादेरादिग्रहणेनेन्द्रियाश्रितत्वचित्तत्वादि ग्रहणं । वचनादेरेव किंचिन्मात्रेणकदेशेन साधर्म्यात्तस्माल्लिङ्गात् पुंसां रागादिमत्वेन नियतविषयत्वेनान्येन वा सर्वाकारेण साम्यमनुमीयेत। - विशेषहेतुसम्भव एवं कुत इत्याह। सर्वेष्वेव चेतोगुणेषु विशेषस्य दर्शनात् । रागप्रज्ञादयो हि स्वविषयग्रहणंप्रति मन्दमन्दवृत्तयोपि कालान्तरेण पटुतरा भवन्ति । स्वविषयश्चैषां स्पष्टतरो भवतीति विशेषो दृश्यते। स पुनः कुतो भवतीत्याहे। संस्कारोभ्यासस्तस्य विशेषेण प्रज्ञादीनां विशेषप्रतीतेः। भवतु प्रज्ञादीनां मनोगुणानामभ्यासात् प्रकर्षों दृष्टत्वात् सर्वज्ञादयस्तु न दृष्टा इति कथन्तेषाम्भावइत्यत आह। तद्वदित्यादि। अन्यस्यापि सर्वज्ञत्वादेविशेषस्य सम्भवात्। अभ्यासवशाच्च नैरात्म्याकारस्य सर्वपदार्थग्राहिणश्च सामान्यविकल्पस्य त्वन्तदेव वैराग्यं सार्वज्ञं च पदं। तेन त्रिभिः प्रकारैर्वैराग्यसर्वज्ञत्वविशेषासम्भवानुमानं स्यात्। यदि नैरात्म्यविषयस्य सर्वविषयस्य वा विकल्पस्यासम्भवः । सम्भवे वा यदि मनोगुणानां न विशेषः स्यात् । सति वा विशेषे विशेषहेतुर्यदि न ज्ञातः
स्यात् । यावता नैरात्म्यादिविषयस्य विकल्पस्य सम्भवोस्ति विशेषहेतुश्चाभ्यासो 27b विज्ञातः । तस्माद यथाऽसति प्रतिबन्धवैकल्ये समर्थेयं बीजकारणसामग्री
अङकुरोत्पादायेति सामर्थ्यानुमानं । तद्वदसति प्रतिबन्धवैकल्ये चिरकालान्नैरन्तयवतश्चाभ्यासविशेषाच्च नैरात्म्यविषयस्य सर्वपदार्थविषयस्य च ज्ञानस्य स्फुटाभत्वं सम्भवतीति वैराग्यसर्वज्ञत्वयोः सम्भवानुमानं । एवन्तावत् सम्भवानुमानमस्माकं । ___ असम्भवे त्वनुमातव्ये भवतां न तस्य धर्मस्य बाधकः कश्चिद्धेतुर्विद्यते। तदभावान्नासंभवद्विशेषहेतवः पूमांस इति सम्बन्धः। कथं पुनधिकस्याभाव इत्याह। वैराग्यस्यादृष्टत्वाद् (1) उपलक्षणं चैतत्सर्वज्ञस्याप्यदृष्टत्वात् । अदृष्टेन च वैरा
1 Ma-mthon-ba-yan-ma-gnod-par-bya-ba.