________________
३. व्याप्तिचिन्ता
६६
यदि (एवं) विपक्षेऽदर्शनमात्रेणाऽप्रतिबद्धस्याऽपि तदव्यभिचारः। क्वचिद् देशे कानिचिद् द्रव्याणि कथंचिद् दृष्टानि अन्यत्र अन्यथाऽपि दृश्यन्ते। यथा ओषधयः काश्चन क्षेत्रविशेषाद विशिष्टरसवीर्यविपाका भवन्ति नान्यत्र । तथा कालसंस्कारभेदाद् अपि। न च तद्देशः तथा दृष्टा इति सर्वाः तत्त्वेन तथा- . भूताः सिध्यन्ति। गुणान्तराणां कारणान्तरापेक्षत्वात्। विशेषहेत्वभावे तु स्याद् अनुमानम्। अदृष्टकर्तृकमपि पुरुषसंस्कारपूर्वकम्। वाक्येषु विशेषाभावात् । सर्वप्रकाराणां पुरुषः कारणदर्शनात्। सर्वेषु गुणेषु विशेषस्य दर्शनात् । नैव सम्भ
यथापरिदृष्टद्रव्यस्वभावनिश्चयः ।
यदीत्यादिनैतदेव व्याचष्टे । यदि विपक्षे हेतोरदर्शनमात्रेणाप्रतिबद्धस्य स्वसाध्ये तदव्यभिचारः साध्याव्यभिचार इष्यते। तदैकत्र दृष्टस्य द्रव्यस्य यद् रूपमपलब्धन्तत्तस्यान्यत्रापि द्रव्यसामान्यादनमयं स्यात् । अस्ति हि तत्रापि तत्कालं .हेतोविपक्षेऽदर्शनमात्र।
• न चेदं युक्तं। यस्मात् क्वचिद् देशे कानिचिद् द्रव्याणि कथंचिद् दृष्टानि प्रतिनियतरसादित्वेन। पुनरन्यथेति यथादृष्टाकारवैपरीत्येनान्यत्र देशे दृश्यन्ते । यथेत्यादिना विषयमाह। वीर्यन्दोषापनयनशक्तिः (1)परिणामो विपाकः । विशिष्टा रसवीर्यविपाका यासामिति विग्रहः । नान्यत्रेति क्षेत्रविशेषादन्यत्र। यथा देशविशेषात् तथा कालसंस्कारभेदात् विशिष्टरसवीर्यविपाका भवन्ति। संस्कारः क्षीराद्यवसेकः। न च तद्दे'शैरिति प्रदेशो येषां पुरुषाणान्तैस्तथाविशिष्टरसा- 27a दियुक्ता दृष्टा इति कृत्वा सर्वा अतद्देशा अपि तत्त्वेन तुल्यरूपादित्वेन तथाभूता यथागृहीतस्वभावतुल्याः सिध्यन्ति । किं कारणं (1) गुणान्तराणां रसादिविशेषाणां कारणान्तरापेक्षत्वात्। विशेषहेत्वभावे तु स्यादेकस्वभावतानुमानं। अष्टः कर्ता यस्य वैदिकस्य तत्तथा। तदपि पुरुषसंस्कारपूर्वकं पुरुषप्रयत्न हेतुकं । एतच्च साध्यफ़लं। वाक्येषु पौरुषेयापौरुषेयत्वेनाभिमतेषु विशेषाभावादनेन हेतुः कथितः । प्रयोगा पुनर्यद्वस्तु यदभिन्नस्वभावन्त (त्त)त्समानहेतुकं (1) यथैको धूमो धूमान्तरसमानजातीयः। पौरुषेयवाक्याभिन्नस्वभावानि चापौरुषेयाभिमतानि वाक्यानीति स्वभावहेतुः। न चासिद्धो हेतुः। तथा हि यैः प्रकारैर्विषाद्यपनयनादिति वैदिकानां विशेष इष्यते। तेषां सर्वप्रकाराणां पुरुषैः कारणदर्शनात । तथा हि श ब रा दिमन्त्राणामपि विषाद्यपनयनादयो दृश्यन्ते। __ यदि शब्दस्वभावसाम्याददृष्टकर्तृ कस्यापि पौरुषेयत्वमनुमीयते। एवन्तर्हि स्वचित्तसन्ततिदर्शनात् सर्वे चित्तधर्मा ज्ञाताः (1) तेन यावद् बोधरूपन्तावत्