________________
६८
प्रमाणवात्तिकस्ववृत्तिटीका (१।२३)
प्रतिषेधः।
एवमा चा यी यः कश्चित् अनुपलम्भाद् अभावं त्रुवाण उपालब्धः। अपि च।
देशादिभेदाद् दृश्यन्ते भिन्ना द्रव्येषु शक्तयः । तत्रैकदृष्ट्या नान्यत्र युक्तस्तद्भावनिश्चयः ।।२३।। '
दावदर्शनमात्रेणानुष्णाशीतस्पर्शस्यायुक्तः प्रतिषेधः। 26b यत्तूच्यते (1) सर्वत्र पृथिव्यादेस्तुल्य'त्वात्तुल्य एवानुष्णाशीतस्पर्शो यस्तु
पृथिव्यादिभावेपि श्लक्ष्णत्वादिभेदः स पृथिव्यादिपरमाणुसंयोगस्य निविडानिविडकृतत्वादिति। ___ तदयुक्तम् (1) अनिविडानां हि नैरन्तर्याभावात् संयोगाभावः । तेन यथोपलपरमाणूनां संयोगस्य निविडत्वन्तथा तूलपरमाणूनामिति कथं श्लक्ष्णत्वादिभेदः स्यात् । तस्माद् सत्यपि संयोगे स्वरूपेणान्यादृ'शा एवोपलपरमाणवोन्यादृशाश्च तूलपरमाणवस्तत्कृत एव च श्लक्ष्णत्वादिभेदः। न संयोगनिविडानिविडकृतः । तथा च यथा पृथिव्यादिभेदात् स्पर्शस्य श्लक्ष्णत्वादिभेदस्तथानुष्णाशीतभेदोपि सम्भाव्यत।
ननु माभूद् अदृष्टविषये वाय्वनुमानं दृष्टविषये त्वनुष्णाशीतस्पर्शस्य दृश्यस्य पथिव्यादिसम्बन्धित्वेनानुपलभ्यमानत्वात् ततो वाय्वनुमानं स्यात् । . एवम्मन्यते। यदि स्पर्शादेर्गुणरूपता सिद्धा स्यात् ततो वायुद्रव्यानुमान स्यात् सैव त्वसिद्धा। स्वातन्त्र्येण प्रतीतेः स्पर्शविशेष एव चास्माकम्वायुरुच्यते। आचार्य दि ग्ना गे न तु स्पर्शव्यतिरिक्तं वायुमभ्युपगम्य तत्र परकीयमनुमानमयुक्तमुक्तमित्यदोषः। . . ___ तस्मात् स्थितमेतद् (।) अन्वयव्यतिरेकयोनिश्चयमदर्शनमात्राच्च प्रति- । षेधाभावं ब्रुवताचार्येणेष्ट: प्रतिबन्ध इति ॥
कस्तāवमुपालब्ध इति चेदाह। एवमित्यादि। एवमित्यनन्तरोक्ताभिरुपपत्तिभिः। आचार्यस्य शिष्य आ चार्टी यः कश्चिदाचार्यग्रन्थानभिज्ञः अनुपलम्भाद् अभावं ब्रुवाण उपालन्धः।
अपि चेत्यदर्शनमात्रेणाभावाभ्युपगमे प्रत्यक्षबाधां दर्शयितुमाह । देशादि. भेदात् । आदिशब्दात् कालसंस्कारभेदात्। भिन्ना नानारूपा दृश्यन्ते द्रव्येष्वेकजातीयेष्वपि शक्तयो रसवीर्यविपाकादिलक्षणाः । तत्रेत्यनेकशक्तिषु द्रव्येष्वेकदृष्टया एकस्वभावस्य द्रव्यस्य क्वचिद् दर्शनान्नान्यत्रापि देशादौ युक्तस्तभावनिश्चयः ।