________________
३. व्याप्तिचिन्ता
यदि अनुपलम्भाद् निवृत्तिसिद्धिः स्याद् । यदि अदर्शनमात्रेण दृष्टेभ्यः प्रतिषेधः क्रियते न च सोऽपि युक्त इति य उक्तः (स) कथमयुक्तः । अनुपलम्भादभावसिद्धेः।।
ननु स्पर्शवचनलक्षणस्य युक्त एव प्रतिषेधः।
न युक्तः। दृश्यतत्स्वभावविषयमात्रेऽप्रतिषेधात्।' यावता पृथिव्यादि (सामान्येन) गृहीत्वा प्रतिषेधमाह । तत्र तूलोपलपल्लवादिषु तद्भावेऽपि स्पर्शभेददर्शनात् । अस्यापि क्वचिद् विशेष सम्भवाशकया भवितव्यमिति सर्वत्र अदर्शनमात्रेण अयुक्तः
428b
अपाकजस्यानुष्णाशीतस्पर्शस्य दृष्टाऽयुक्तिः। दृष्टेषु पृथिव्यादिष्वसङ्गतिर्या वणिता वैशेषिकर्यस्या आचार्येणायुक्तत्वमुक्तं सा स्याद् अविरोधिनी युक्तैव स्यादित्यर्थः।
तयाचष्टे। यदीत्यादि। यदाहाचार्यः। वायुप्रकरणे यद्यदर्शनमात्रेण दृष्टेभ्यः पृथिव्यादिभ्यः स्पर्शस्य प्रतिषेधः क्रियते वै शे षि के ण न च सोपि युक्त इति । यद्याचार्यस्याप्यदर्शनमात्रेण व्यतिरेकोभिमतस्तदा कथमयुक्तः स्पर्शस्य प्रतिषेधो युक्त एव स्यात् । किं कारणम् (1) अत्रापि हेतोरनुपलम्भादभावसिद्धरभ्युपगमात्।
नम्वित्यादि परः। उपलब्धिलक्षणप्राप्तेः कारणाद् अपाकजस्यानुष्णाशीतस्पर्शस्यानुपलभ्यमानस्य पृथिव्यादिषु युक्त एव प्रतिषेधः ।
न युक्त इति सिद्धान्तवादी। किं कारणं (1) यः पृथिव्यादिरनुष्णाशीतादन्येन स्पर्शन युक्तः प्रत्यक्षः स दृश्यः। अन्यत्र च देशादावप्रत्यक्षोपि तथाभूतस्पर्शयुक्त एव पृथिव्यादिस्तत्स्वभावः। दृश्यश्च तत्स्वभावश्चेति द्वन्द्वः। तदेव विषयः स एव तन्मात्रं "सुप्सुपेति" समासः। तस्मिन्नप्रतिषेधात् स्पर्शस्य। तत्र हि प्रतिषेधे स्यादेव निश्चयः यावता पृथिव्यादिमिभूतं सामान्येनाविशेषेणैव गृहीत्वाऽयम्वशे षि कः स्पर्शस्य प्रतिषेधमाह। यत्किंचित् पृथिव्यादि तत्सर्वमनुष्णाशीतस्पर्शरहितमिति। न च पृथिव्यादिमात्रे स्पर्शस्योपलब्धिलक्षणप्राप्तिरस्ति। न चैकस्पर्शनियमः पृथिव्यादीनां यतस्तत्र पृथिव्यादिसामान्ये तूलोपलपल्लवादिषु भेदेषु तद्भावेपि पृथिव्यादिभावेपि स्पर्शभेददर्शनात् । तथा हि तूलस्यान्यः स्पर्शः श्लक्ष्णत्वलक्षणोन्यश्चोपलादे: कर्कशत्वादिलक्षणः। अस्यापीत्यनुष्णाशीतस्पर्शस्य क्वचित् पार्थिवद्रव्यविशेषे सम्भवाशंकया भवितव्यमिति कृत्वा सर्वत्र पृथिव्या
1 Tsam-la-sogs-pa? = Tsam-la-hgogs-pa.