________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।२२) .. तल्लक्षणयुक्ते बाधासम्भवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्राऽनाश्वासः।
यद्ये (वम)नुमानविषयेऽपि प्रत्यक्षानुमानविरोधदर्शनात् अनाश्वासप्रसङ्ग इति चेत्।
नैतदेवम् । यथोक्तेऽसम्भवात् । सम्भविनश्चातल्लक्षणत्वात् । यदि विरु द्धाव्यभिचार्युक्तमिति। अनुमानविषयेऽवचनादिष्टम् । विषयोऽस्य निर्देष्टव्यः ॥२१॥
किच। , दृष्टाऽयुक्तिरदृष्टेश्च स्यात् स्पर्शस्याविरोधिनी ॥२२॥
णत्वस्य यददर्शनन्तस्मिन्बाधासम्भवे सति तल्लक्षणमेव तस्य व्यतिरेकसाधनस्यादर्शनस्य सर्वविषयमेव लक्षणं स्वरूपं दूषितं स्यादिति सर्वत्रादर्शने व्यतिरेकसाधने नाश्वासः। न गमकत्वनिश्चयः ।।
यद्येवमनुमानविषयेपि क्वचित् प्रत्यक्षानुमानविरोधदर्शनात् (।) तथा हि नित्यः शब्दः श्रावणत्वाच्छन्दत्ववदिति कृते नित्यत्वमनुमानेन बाध्यते। एवमश्रावणः शब्दः सत्त्वाद् घटवदिति प्रत्यक्षेण। ततश्च सर्वत्र तदवशिष्टलक्षणेनानुमानेप्यनाश्वासप्रसंग इति
नैतदेवं। यथोक्त इति कार्यस्वभावानुपलम्भजेङ्गजेनुमाने प्रत्यक्षानुमानविरोधस्याभावात् । प्रत्यक्षादिविरोधसम्भनिनश्चातल्लक्षणत्वात् तदनुमानालक्षणत्वात्। यदि यथोक्तलक्षणेऽनुमाने नास्ति बाधा तदा हेतुलक्षणयुक्तं परस्पर
विरुद्धार्थसाधकं हेतुद्वयमेकस्मिन् धर्मिण्यवतीर्णविरुद्धाम्यभिचार्युक्तमा चा र्ये 26a ण तस्यावच'नमिति चेत् । अनेनाभ्युपेतहानिमाह। अनुमानविषये विरुद्धव्यभि
चार्यवचनादिष्टमेवेति कुतोभ्युपेतहानं । क्व ताचार्येणोक्त इत्याह। विषयं . चेत्यादि। अस्य विरुद्धाव्यभिचारिणः। किंचेत्यादि। इह वै शे षि के ण वायोः सत्त्वसाधनार्थं "स्पर्शश्च न च दृष्टानामि"ति सूत्र मुक्त। अस्यायमर्थः (1) यो गुणः स द्रव्याश्रयी तद्यथा रूपादिः। अपाक जानुष्णाशीतस्पर्शश्च गुणस्तस्मात्तस्याश्रयभूतेन द्रव्येण भवितव्यं । न चायं दृष्टानां पृथिव्यादीनां गुणस्तेषां पाकजानुष्णाशीतस्पर्शादिगुणत्वात्। ततो यस्यायं गुणः स वायुभविष्यतीत्युक्ते वैशेषिकेण। तत्राचार्य दिङ ना गे नोक्तं (1) यद्यदर्शनमात्रेण दृष्टेभ्यः प्रतिषेधः क्रियते न च सोपि युक्त इति (1) यदेतदुक्तन्तद् विरुध्यत इति वा त्ति २ क का रो दर्शयन्नाह। वृष्टत्यादि। यद्यदृष्ट्या निवृत्तिः स्यात् तथाऽवृष्टेरदर्शनात् कारणाद्
1 Bstan-par-bya.
2 Vaisesikasūtra 2:9.