________________
३. व्याप्तिचिन्ता
न हि तयावृत्तेरन्यद् व्यवच्छेदनम्। अव्यवच्छेदस्तु कुतश्चिद् व्यावृत्तेरेवानिश्चयाद् । क्वचिद् यत्र नास्तीति मिश्चितः स भवन् कथं तदभावं न गमयेत् ?
प्रमाणान्तरवाधा चेन्नदानीं नास्तिताऽहश: ॥२॥ अथाऽपि उभयव्यवच्छेदे प्रमाणान्तरं बाधकमस्ति । अन्योन्यव्यवच्छेदरूपाणां हि एकस्य व्यवच्छेदेन द्वितीयस्य विधानात् अप्रतिषेधः। विषिप्रतिषेधयो (युगपद्) विरोधादिति।
नेवानीं अदशो नास्तिता। एवं सति अदर्शनं न प्रमाणं, बापासम्भवात ।
ख. आचार्यांयमतनिरासः तथान्यत्रापि संभाव्यं प्रमाणान्तरबाधनं ।
दस्त्वि'त्यादि। कुतश्चिन्नित्यादनित्याच्चादर्शनमात्रेण व्यावृत्तेरेवानिश्चयात्। 25b अनिश्चयश्चान्यतरत्र प्रतिबन्धानिश्चयात् । अवश्यं चैतदेवमन्यथा यो हि धर्मो यत्र नास्तीति निश्चितः स भवन क्वचिद धर्मिणि कथन्तदभावं यत्र नास्तीति निश्चितस्तस्याभावं कथं न गमयेत्।
नित्यानित्याद् व्यावृत्तस्यापि श्रावणत्वस्योभयव्यवच्छेदे साध्ये प्रमाणान्तरबाधा चेच्छंक्येत । अथापीत्याद्यस्यैव व्याख्यानं । श्रावणत्वेनोभयव्यवच्छेदे नित्यानित्यव्यवच्छेदे साध्ये प्रमाणान्तरं बाधकमस्ति । तदाह। अन्योन्येत्यादि । अन्योन्यव्यवच्छेदो रूपं येषान्ते तथा। तथा हि नित्यव्यवच्छेद एवानित्यत्वन्तव्य- . वच्छेद एव च नित्यत्वन्तथा भावव्यवच्छेद एवाभावोऽभावव्यवच्छेद एव च भावः । तेषामेकस्य व्यवच्छेदेनान्यविधानात्। द्वितीयस्य विरुद्धस्यविधानादप्रतिषेधः।
एतदुक्तम्भवति। यदा हि श्रावणत्वं नित्याद् व्यावृत्तमिति तद् व्यवच्छिद्यात् । तदेवानित्यत्वम्विदध्यात्। तदेव च तदनित्याद् व्यावृत्तमित्यनित्यं व्यवच्छिद्यात्। नित्यं च विधत्त इत्येकस्यैकदैव विधिप्रतिषेधौ स्यातां तच्चायुक्तमिति विधिप्रतिषेधयोर्युगपद्विरोधान्न कस्यचिदपि प्रतिषेधः । प्रतिषेधविनिवृत्तिलक्षणो हि विधिः । विधिनिवृत्ति रेव च प्रतिषेधस्तौ च परस्परविरुद्धौ युगपदेकस्य कथं स्याताम् (1) अतो न कुतश्चिदपि व्यावृत्तिनिश्चयः श्रावणत्वात्।
नेदानीमिति सिद्धान्तवादी। इदानीमिति बाधासम्भवे सति। अदृशोऽदर्शनाद् विपक्षे हेतो स्तिता। तस्मादेवं सत्यदर्शनन्न प्रमाणम्बाधासम्भवात् । ___ श्रावणत्व एवाप्रमाणं भवतु नान्यत्र बाधाऽभावादिति चेदाह। तथेत्यादि । अन्यत्रापि हेतोर्व्यतिरेकसाधनस्यादर्शनस्य सम्भाव्यं प्रमाणान्तरबाधनं । कुतः । लक्षणेत्यादि। हेतोविपक्षादर्शनव्यावृत्तिनिबन्धनमिति यल्लक्षणन्तेन युक्तं श्राव