________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।२०) ___ अनुपलम्भ एव सति संशयात् उपलम्भेऽभावात्। अनुपलम्भाद् व्यतिरेक इति संशयितोऽनिवार्यः। यथायोग (मुदाहार्यमिति यथायोग)वचनात् अनिवारित एवेति चेत् । न। य एव तूभयनिश्चयवाचीत्यादिभूतात्' तेनाऽनुपलम्भेऽपि संशयात् अनिवृत्ति मन्यमानः तत्प्रतिषेधमाह ॥ . किञ्च।
विशेषस्य व्यवच्छेदहेतुता स्याददर्शनात् । 428a श्रावणत्वस्यापि नित्यनित्ययोरदर्शनात् व्यावृत्त्या तद्व्यवच्छेदहेतुता स्यात् ।
तद्वयाचष्टेऽनुपलम्भ एवेत्यादि। अप्रमाणकेनुपलम्भ एव सति हेतोर्विपक्षे संशयात् (1) कथमुपलम्भे तदसम्भवात्। विपक्षे हेतोरुपलम्भे सति तस्य सङशयस्याभावात्। तस्मा वनुपलम्भाद्धेतोः विपक्षाद् व्यतिरेक इत्यर्थात् सन्दिग्धव्यतिरेको हेतुरिष्ट एव। तस्मात् संशयितोऽनिवार्यः। संशयेन विषयीकृतः संशयितो व्यतिरेको न वार्यः स्यात्।
यथायोगमदाहार्यमित्यतो यथायोगवचनात् संशयितोऽनिवारित एवेति चेत। . नैतदेवं । तदनन्तरमेव “य एव तूमयनिश्चयवाची"त्यादि वचनात् । य एव शब्द उभयनिश्चितस्य त्रैरूप्यस्यासिद्धत्वादेर्वाचकः स एव साधनं दूषणं 'न चान्यतरप्रसिद्धसन्दिग्धवाची पुनः साधनापेक्षणादि"त्ययं ग्रन्थ इहोदाहरणं । अन्यतरस्य वादिनः प्रतिवादिनो वा (1)योसिद्धं सन्दिग्धम्वा वक्ति न स साधनं दूषणं वा (1) सन्दिग्धव्यतिरेकनिश्चयहेतुरुभयोरपि विपक्षे सन्दिग्धस्तस्मात्तदभिधानमसाधनम् । यस्मादुभयनिश्चित एव हेतुरुक्तस्तेनानुपलम्भेपि सति निवृत्तिसंशयाद् विपक्षाखेतोरनिवृत्तिं मन्यमानस्तस्य सन्दिग्धव्यतिरेकस्य हेतुत्वप्रतिषेधमाह असिद्धियोजनया॥
किञ्च। यद्यदृष्ट्या निवृत्तिरिष्यते तदा विशेषस्यासाधारणस्य श्रावणत्वादेर्व्यवच्छेदहेतुता स्यात्। किं कारणं (1) नित्यानित्ययोरदर्शनात् । तद् व्याचष्टे (1) श्रावणत्वस्यापीत्यादि । तथा ह्यदर्शनमात्राद् व्यावृत्तिरिष्टा (अ) स्ति च नित्यानित्ययोरदर्शनं श्रावणत्वस्य तद्व्यवच्छेदहेतुता स्यात् । नित्यानित्यप्रतिषेधहेतुत्वम्भवेत् । यदि नामादर्शनात् ततो व्यावर्तेत श्रावणत्वन्तयवच्छेदहेतुत्वन्तु कुत इत्याह। न हीति। न तव्यावृत्तेरन्यद् व्यवच्छेदनन्नित्यानित्यव्यवच्छेदनम् (।) तवापि कथं श्रावणत्वन्न व्यवच्छेदहेतुरिति चेदाह । अव्यवच्छे
1 Hbyun-bahi-phyir-ro.