________________
३. व्याप्तिचिन्ता
"
अभ्युपगमात् सिद्धमिति चेत् । कथमिदानीमात्मसिद्धिः । अन्यस्याअप्रमाणिका कथं नैरात्म्य सिद्धिः । अभ्युपगमेन हि सात्मकानात्मकौ विभज्यतंत्र भावेन गमकत्वं कथयताsपि आगमिकत्वमात्मनि प्रतिपन्नं नानुमेयत्वम् । तस्माददर्शने - नापि आत्मनो निवृत्त्यसिद्धे (र्नास्ति) कुतश्चित् तनिवृत्तिः । निवृत्तावपि प्राणादीनां सम्बन्धाभावात् सर्वत्र निवृत्त्यसिद्धेः न गमकत्वम् ॥
सपक्षे' सन्नसन्नित्ये" वमादिष्वपि यथायोग
याऽप्यसिद्धियोजना "तथा मुदाहार्यमित्येवमादि । साऽपि --
६३
न वाच्याऽसिद्धियोजना ||२०||
सिद्धिरिति यावत् ।
बौद्धेन नैरात्म्यमभ्युगतमतोभ्युपगमान्निरात्मकत्वं घटादेः सिद्धमिति चेत् । यदि बौद्धाभ्युपगमः प्रमाणं कथमिदानीमात्मसिद्धिर्जीवच्छरीरे । तदपि बौद्धेन निरात्मकमिष्टं । जीवच्छरीरे नैरात्म्याभ्युपगमोऽप्रमाणकस्ततोस्यात्मा साध्यत इति । यद्येवं परस्यापि जीवच्छरीरादन्यस्यापि घटादेरप्रमाणिका कथं नैरात्म्यसिद्धिः । न हि बौद्धस्याभ्युपगमः क्वचित्प्रमाणं क्वचिन्नेति । किं चाभ्युपगमेन केवलेन सात्मकानात्मक विभज्य घटादयः परेणास्माभिश्चानात्मका अभ्युपगताः। तेनानात्मकाः । जीवच्छरीरं सात्मकमस्माभिरभ्युपगतन्त्वया तु निरात्मकमेवम्विभज्य तत्र निरात्मकेषु प्राणादीनामभावे नात्मविषये गमकत्वं कथयता परेणागमिकत्वमात्मनि प्रतिपन्नं नानुमेयत्वं । तस्मादात्मनो घटादावदर्शनेप्यदृश्यस्वभावस्यात्मनो निवृत्त्यसिद्धेर्नास्ति कुतश्चिन्नि' रात्मकात् प्राणादेन्निवृ- 252 त्तिरित्यगमकत्वं । एतत्तावन्नैवात्मनः कुतश्चिन्निवृत्तिः सिद्धा । अभ्युपगम्य तूच्यते । तन्निवृत्तावप्यात्मनिवृत्तावपि क्वचिदिति दृष्टे घटादौ निवृत्तावपि प्राणादीनामप्रतिबन्धादात्मना सह सम्बन्धाभावात् । सर्वत्रादृष्टेष्वपि घटादिष्वात्मनिवृत्त्या प्राणादीनां निवृत्त्यसिद्धेः सन्दिग्धव्यतिरेकित्वाद् (न) गमकत्वं । 1
अदर्शनमात्राद् व्यतिरेकाभ्युपगमे सत्ययमपरो दोष इत्याह । यापीत्यादि । का पुनः सेत्याह । तथा सपक्षे सन्नित्यादि । आचार्य स्य चायङ्ग्रन्थः । तत्र सन्दिह्युक्तम्पक्षधर्मो वादिप्रतिवादिनिश्चितो गृह्यते । तेनोभयोरन्यतरस्य चासिद्ध ग्धस्याश्रयासिद्धस्य च व्युदासः । यथा च पक्षधर्मनिश्चयेन चतुर्विधस्यासिद्धस्य व्युदासस्तथा सपक्षे सन्नसन्नित्येवमादिष्वप्यन्वयव्यतिरेकनिश्चयेन निरस्तमसिद्धजातमन्यतरासिद्धादीनां सपक्षादिष्वसम्भवात् । यथायोगमुदाहार्यमित्याह । सापि न वाच्या असिद्धियोजना |