________________
427b
प्रमाणवार्त्तिकस्ववृत्तिटीका ( १११६ )
व्यतिरेकः सिद्ध एव साधनं इति तथाभावनिश्चयमपेक्षते । अनुपलम्भात्तु क्वचित् अभावसिद्धावप्यप्रतिबद्धस्य तदभावे सर्वत्र' अभावासिद्धेः । संशयादव्यतिरेक एव शेषवद्व्यभिचारः ॥ १६ ॥
किञ्च ।
६२
व्यतिरेक्यपि हेतुः स्यात् ;
नेवं निरात्मकं जीवच्छरीरं अप्राणादिमत्त्वप्रसङ्गात् । निरात्मकेषु घटाविषु दृष्टादृष्टेषु प्राणाद्यदर्शनात् । तनिवृत्या आत्मगतेः । अदृश्यानुपलम्भात् अभावासिद्धौ घटादे नैरात्म्यासिद्धेः प्राणादेरनिवृत्तिः ।
चारित्वं स्यादिति ।
ननु प्रतिबन्धबलात् साध्याभावे हेतोर्व्यतिरेके सति सत्तामात्रेण व्यतिरेको गमकः स्यादित्यत आह । व्यतिरेकस्त्वित्यादि । हेतोर्यो विपक्षाद् व्यतिरेकः स सिद्ध एव निश्चित एव साधनं । इति हेतोस्तथाभावनिश्चयं साध्याभावे यो हेत्वभावस्तन्निश्चयमपेक्षते । एतदाह ( 1 ) नास्माकम्भवतामिव दर्शनाभावमात्राद् व्यतिरेकः । किन्तु साध्यसाधनयोः सति प्रतिबन्धे साध्याभावे हेतोर्विपक्षाद्व्यावृत्तत्वं स्वगतो धर्मंः । हेतोश्च यद्रूपन्तदवश्यं स्वनिश्चयमपेक्षते ज्ञापकत्वादिति । कथं त्वन्मतेन शेषवतो व्यभिचारित्वमिति चेदाह । अनुपलम्भावित्यादि । क्वचिद्विपक्षैकदेशे हेतोरभावसिद्धावप्यप्रतिबद्धस्य हेतोः साध्ये । तदभावे साध्याभावे सर्वत्र विपक्षेsभावासिद्धेः कारणात् संशयस्ततो विपक्षादव्यतिरेको यः स एव व्यभिचारः शेषवतः ( 1 )
I
किचेति दोषान्तरसमुच्चयः । यद्यदर्शनाद व्यतिरेकस्तदा व्यतिरेक्यपि हेतुः स्यात् । कीदृशं नेदं निरात्मकमित्यादि । प्रसङ्गमुखेन चेदमुक्तमप्राणादिमत्त्व - 'प्रसङ्गात् । प्राणादिमत्वाच्च सात्मकं । अयं च हेतुः सात्मके क्वचिन्न दृष्टोनिरात्मकेभ्यश्च व्यावृत्त इति साध्यनिवृत्तौ निवृत्तिधर्माव्यतिरेकी कथ्यते । तथा हि निरात्मकेष्वात्मरहितेषु घटादिषु दृष्टादृष्टेषु प्राणाद्यदर्शनात् प्राणापानोन्मेषनिमेषादर्शनात् । दृष्टेषु स्वभावानुपलम्भेनैवादर्शनं प्राणादीनामुपलब्धिलक्षण प्राप्तत्वात् । अदृष्टेष्वपि तज्जातीयतया । तेन नैरात्म्यं प्राणाद्यभावेन व्याप्तं । जीवच्छरीरे तु तन्निवृत्त्या प्राणादिमत्त्वाभावनिवृत्त्या नैरात्म्यस्य निवृत्तेरात्मगतिः स्यात् । तव तर्हि कथं संशयहेतुरिति चेदाह । अदृश्येत्यादि । अदृश्यस्यात्मनोनुपलम्भाद् घटादिस्व ( ? ष्व ) भावाप्रसिद्धौ घटादी (ना) सैरात्म्यासिद्धेः कारणान्निरात्मकात् प्राणादेरनिवृत्तिः । प्राणाद्यभावेन सन्दिग्धस्य नैरात्म्यस्याप्य