________________
३. व्याप्तिचिन्ता यद्यदृष्टया निवृत्तिः स्याच्छेषवद् व्यभिचारि किम् । यथा एतानि फलानि पक्वानि (एवं) रसानि च मधुराणि। रूपाविशेषाद् एकशाखाप्रभवत्वाद् वा उपयुक्तवद् । अत्रापि विवक्षितस्याशेषस्य पक्षीकरणे साध्याभावे हेतोरनुपलम्भोस्तीति कथं व्यभिचारः? प्रत्यक्षबाधाशंका एव व्यभिचार इत्येके। न। पक्षीकृतविषयेऽभावात्। अथ चेत् स्यात्। तथाऽतिप्रसङ्गः। अन्यत्राप्यभावनियमाभावात्, वृत्तं प्रमाणं बाधकम् । अवृत्तबाधने सर्वत्रानाश्वासः।
एतानि फलानीत्युपयुक्तादन्यानि। अयं च मिनिर्देशः । पक्वान्येवं रसानि चेति साध्यधर्मः। एवं रसानि मधुराण्यम्लानि वा। रूपाविशेषादिति हेतुः । उपयुक्तस्य फलस्य यद्रूपं रक्ततादि। तेन तुल्यत्वात् । एकशाखाप्रभवाद्वेति हेतुः । उपयुक्तवदिति दृष्टान्तः । कस्माददर्शनमात्राद् व्यतिरेक इष्यमाणे शेषवतोव्यभिचारित्वं स्यादित्याह। अत्रापीत्यादि। अत्र शेषवदर्शनुमाने विवक्षितं रूपविशेषादियुक्तमुपभुक्तादन्यत्फलन्तस्याशेषस्य पक्षीकरणे। हेतो रूपादिशेषादिकस्य साध्याभावेनुपलंभोस्तीति विपक्षाव्यावृत्तिरतश्चाव्यभिचारिता स्यात् । तथा हि यत् पक्षीकृतं फलं यच्चोपयुक्तं सपक्षत्वेनोपात्तन्तद्व्यतिरेकेण विपक्षभूते तृतीये राशौ नास्ति यथोक्तस्य हेतोवृत्तिः ।
प्रत्यक्षबाधेत्यादि। कदाचिदेकशाखाप्रभवस्यापि फलस्यापक्वस्यातद्रसस्य वा प्रत्यक्षेणानुभवसम्भवात् प्रत्यक्षबाधाशङ्का एव शेषवतो व्यभिचार इत्येके ईश्वर से न प्रभृतयः। तदयमर्थो न केवलाभ्यामन्वयव्यतिरेकाभ्यां हेतुर्गमकः (, अ)पि त्वबाधितविषयत्वे सतीति। नेत्यादिना परिहरति। पक्षीकृतो योविषयः परोक्षस्तत्र प्रत्यक्षबाधाया अभावात्। न प्रवृत्तेन प्रत्यक्षेण बाधाशङ्का किन्तु कदाचिद् गन्धप्रत्यक्षबाधापक्ष इति चेदाह। तथेत्यादि। तथा कदाचित् प्रत्यक्षबाधा भवेदित्याशङ्कायामतिप्रसंगः। यस्मादन्यत्राभिमते हेतौ प्रत्यक्षबाधाया अभावनियमाभावात्। न हि सम्बन्धाभ्युपगमे परस्य बाधाशङ्का निवर्तत इति भावः। तस्मात् प्रतिबन्धानभ्युपगमवादिना वृत्तं प्रमाणं बाधकमेष्टव्यं । अवृत्तबाधने प्रवृत्तेनैव प्रमाणेन बाधने सर्वत्रानाश्वासः सर्वत्र हेतौ न स्यादाश्वासो गमकत्वनिश्चयः । बाधकस्य शंक्यमानत्वात् । नैवं प्रतिबन्धवादिनः सर्वत्र हेतावनाश्वासः साध्यप्रतिबद्ध हेतौ बाधाशंकाया अप्यभावात्। हेतुप्रयोगात्तु पूर्व स्याद् बाधाशंका (1) अत एव सन्दिग्धे हेतुवचनमुच्यते (1) न च वृत्तं प्रमाणं शेषवतो बाधकमस्ति। तस्मात् स्थितमेतद् अदर्शनमात्राद् व्यतिरेके शेषवतो'प्यव्यभि- 24b