________________
4272
24a
प्रमाणवार्तिकस्ववृत्तिटीका ( १|१६ )
यद्यनुपलभमानो तन्मात्रान्नास्तीति असत्तां तेन ख्यापयतीति ।
न च नास्तीति वचनात् तन्नास्त्येव यथा यदि । नास्ति, (स) ख्याप्यते न्यायस्तदा नास्तीति गम्यते ॥१९॥ यद्यनुपलम्भादभाव इति चेत् अप्रतीतौ वचनेनापि अप्रतीतिरेव स्यात् । सापि अनुपलब्धिरेव वचनम्' ।
६०
न चैकानुपलम्भोऽन्याभावं साधयति, अतिप्रसङ्गात् । न च तेन नास्तीति वचनात् तथा भवति, अतिप्रसङ्गात् । तत् कथं वैधर्म्यवचनेनानैकान्तिकपरिहारः । तस्माद् व्यावृत्तिमिच्छता तत्र न्यायो वक्तव्यो यतोऽत्र व्यावृत्तमिति निश्चयो भवति ॥
ननु तदभावेऽनुपलम्भात् असिद्धा व्यावृत्तिरिति ।
इति । यथा येन प्रकारेण स्वसाध्यप्रतिबन्धेन विपक्षे हेतुर्नास्ति यदि स न्याय इति प्रतिबन्धग्राहकं प्रमाणं ख्याप्यते स्मर्यते तदा नास्तीति गम्यते । न तु प्रतिबन्धमन्तरेण (1)
यदीत्यादि प्रथमं कारिकाभागमाह । यद्यनुपलभमानोनुपलम्भमात्रान्नास्तीति न प्रत्येति तदा वैधर्म्यवचनादप्यप्रमाणकान्न प्रत्येष्यति । यस्मात्तदपि वैधर्म्यवचनं । वता ( ? ) तेनानुपलम्भमेव ख्यापयति नाधिकविशेषं ।
स्यान्मतं । साध्याभावकृतो हेत्वभावो वैधर्म्यवचनेन ख्याप्यते ततोस्ति विशेष इत्यत आह । न चैकेत्यादि । एकानुपलम्भ इति साध्यानुपलम्भः । अन्धाभावं साधनाभावं । असति प्रतिबन्ध इति भावः । अतिप्रसंगादिति प्रतिबन्धमन्तरेण निवृत्तौ गोनिवृत्त्याप्यश्वस्य नियमेन निवृत्तिः स्यात् ।
अथ मतम् (।) आचार्यदि' ग्ना गे न “विपक्षे हेतुन्नस्ती "त्युक्तमत एव निश्चय इत्यत आह । न चेत्यादि । तेना चा र्येण नास्तीति यद् वैधर्म्यवचनं कृतं तस्मात्तथा भवति वस्तुनो नास्तित्वमेव भवत्यतिप्रसङ्गात् । तद्वचनस्य हि प्रामाण्ये प्रतिज्ञामात्रादपि साध्यसिद्धिः स्यात् । तदिति तस्मात् कथम्वैधर्म्यवचनेनानैकान्तिकपरिहारः ( 4 ) नैव । तस्माद् विपक्षाद्धेतोर्व्यावृत्तिमिच्छता तत्र व्यावृत्तौ न्यायो वक्तव्यः । साध्यसाधनयोः प्रतिबन्धग्राहकं प्रमाणं यत इति न्यायात् । अस्येति प्रतिपाद्यस्य । साधनं व्यावृत्तिमिति निश्चयो भवति ॥
नन्वित्यादि परः । तदभावे साध्याभावेऽनुपलम्भात् ( अ ) सिद्धा व्यावृत्तिर्हेतोरयमेव न्याय इति मन्यते । यद्यदृष्टया हेतोर्विपक्षान्निवृत्तिः स्यात्तदा शेषवदनुमानं व्यभिचारि किं । नैव व्यभिचारि स्यात् ( 1 ) कीदृशं पुनस्तदित्याह । यथेत्यादि ।